This page has not been fully proofread.

( १२ )
 
1
 
त्रयात्पूर्वमुत्पन्नः स्यादिति । व्याख्यानावसरे चायं तत्र तत्र तात्पर्या-
वेदनाय गद्यकाव्यरीतिमाश्रित्य मधुराणि सानुप्रासानि च वाक्यानि
विलिखन्नियतमावर्जयति सहृदयानां हृदयानि । पद्यप्रणयनेऽप्यस्य
परिदृश्यते प्रशंसनीषा पटीयस्ता । 'स्रोतोमूर्त्या भुवि परिणतां रन्ति-
देवस्य कीर्तिम्' इत्येतद्विवरणावसरे कथाभागं पद्यैरेव प्रतिपादय-
नयं महामतिरन्येषामपि पद्यानामेतत्कृताना मन्वेषणे नूनमतिमहती:
मुपजनयत्युत्कण्ठाम् । न जानीमः- अपि नाम कृतं स्यादनेन
गद्यतः पद्यतो वा किमपि काव्यम् १ अनेन च विरचितमतिप्रशस्तं
मालतीमाधवस्य व्याख्यानमपि केरलेषु क्वचित्क्वचिदुपलभ्यते ।
कालिदासीयानां सर्वेषामपि काव्यानामयं व्याख्यातेत्यपि केरलेषु
बहवः कथयन्ति । उपलभ्य च तदीयानि व्याख्यानानि समूलमचि-
रात्प्रकटयितुमंभिलघामः ।
 
-
 
इति
 
श्रीवत्सचक्रवर्ती
 
अभिनवभट्टवाणः कृष्णमाचार्यः ।