This page has not been fully proofread.

मेघसंदेशे
 
'एतस्मान्माम्' इति श्लोकानन्तरम्
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलादाशु त्रिनयनदृषोत्खातकूटान्निवृत्तः ।
साभिज्ञानमहितकुशलैस्तद्वचोभिर्ममापि
 
मातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥
 
१८४
 
इत्थं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदान याचते-
आश्वास्येति । प्रथमबिरहेणोदप्रशोकां तीब्रदुःखाम् । ते सखीम् । एवं
पूर्वोक्तरीत्या। आश्वास्य उपजीव्य । त्रिनयनस्यं त्र्यम्बकस्य वृषेण वृष-
भेणोत्खाता अवदारिता: कूटाः शिखराणि यस्य तस्मात् । 'कूटोऽस्त्री
शिखरं शृङ्गम्' इत्यमरः । शैलात् कैलासात् । आशु निवृत्तः
सन्प्रत्यावृत्तः सन् । सामिज्ञानं सलक्षणं यथा तथा प्रहितं प्रेषितं
कुशलं येषु तैः । तस्यास्त्वत्सख्या बचोभिः । ममापि । प्रातः कु·
न्दप्रसवमिव शिथिलं दुर्बलम् । जीवितम् । धारयेथाः स्थापय।
प्रार्थनायां लिङ् ॥