This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
'एतस्मान्माम्' इति श्लोकानन्तरम्

 
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते

शैलादाशु त्रिनयनदृवृषोत्खातकूटान्निवृत्तः ।

साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
 

मातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥
 
१८४
 

 
इत्थं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदानीं याचते-
-
आश्वास्येति । प्रथमबिविरहेणोदप्रशोकां तीब्व्रदुःखाम् । ते सखीम् । एवं

पूर्वोक्तरीत्या। आश्वास्य उपजीव्य । त्रिनयनस्यं त्र्यम्बकस्य वृषेण वृष-

भेणोत्खाता अवदारिता: कूटाः शिखराणि यस्य तस्मात् । 'कूटोऽस्त्री

शिखरं शृङ्गम्' इत्यमरः । शैलात् कैलासात् । आशु निवृत्तः

सन्प्रत्यावृत्तः सन् । सामिभिज्ञानं सलक्षणं यथा तथा प्रहितं प्रेषितं

कुशलं येषु तैः । तस्यास्त्वत्सख्या चोभिः । ममापि । प्रातः कु·
-
न्दप्रसवमिव शिथिलं दुर्बलम् । जीवितम् । धारयेथाः स्थापय

प्रार्थनायां लिङ् ॥