This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१८३
 
प्रदेशस्तत्र च्छिन्नानि सूत्नाणि येषां तैः । हारैश्च । सून्यते ज्ञाप्यते ।
मार्गपतितमन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत
 
इत्यर्थः ॥
 
वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं
पुष्पदंसह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
गेकः सुते सकलमबलामण्डनं कल्पवृक्षः ॥
 
'कचधार्य देहधार्य परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः
स्त्रीणामन्यत्र दैशिकम् ॥' इति रसाकरे । तदेवैतदाइ-
वास इति ।
यस्यामलकायाम्। चित्रं नानावर्णं वासो वसनम् । परिधेयमण्डनमेतत् ।
नयनयोः । विभ्रमाणामादेश उपदेशे दश्चम् । अनेन विभ्रमद्वारा
मधुनो मण्डनत्वमनुसंधेयम् । तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम् ।
मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम्, उमयं चेत्यर्थः ।
इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् ।
तथा चरणकमलयोर्न्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति
रागो रञ्जकद्रव्यम् । लाक्षैव रागस्तं लाक्षारागं च । चकारोऽङ्गरा-
गादिविलेपनमण्डनोपलक्षणार्थ: । सकलं सर्वम् । चतुर्विधमपी-

 
त्यर्थः । अचलामण्डनं योषित्प्रसाधनजातम् । एकः कल्पवृक्ष एव ।
सूते जनयति, न तु नानासाधनसंपादन प्रयास इत्यर्थः ॥
 
-