This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१८३
 
प्रदेशस्तत्र च्छिन्नानि सूत्नाराणि येषां तैः । हारैश्च । सून्च्यते ज्ञाप्यते ।

मार्गपतितमन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत
 

इत्यर्थः ॥
 

 
वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं

पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् ।

लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
गे

मे
कः सुते सकलमबलामण्डनं कल्पवृक्षः ॥
 

 
'कचधार्ये देहधार्ये परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः

स्त्रीणामन्यत्र दैशिकम् ॥' इति रसाकरे । तदेवैतदा-
- वास इति ।

यस्यामलकायाम्। चित्रं नानावर्णं वासो वसनम् । परिधेयमण्डनमेतत् ।

नयनयोः । विभ्रमाणामादेश उपदेशे दश्चक्षम् । अनेन विभ्रमद्वारा

मधुनो मण्डनत्वमनुसंधेयम् । तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम् ।

मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम्, उयं चेत्यर्थः ।

इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् ।

तथा चरणकमलयोर्न्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति

रागो रञ्जकद्रव्यम् । लाक्षैव रागस्तं लाक्षारागं च । चकारोऽङ्गरा-

गादिविलेपनमण्डनोपलक्षणार्थ: । सकलं सर्वम् । चतुर्विधमपी-

 

त्यर्थः । अलामण्डनं योषित्प्रसाधनजातम् । एकः कल्पवृक्ष एव ।

सूते जनयति, न तु नानासाधनसंपादन प्रयास इत्यर्थः ॥
 
-