2023-02-17 12:54:51 by ambuda-bot
This page has not been fully proofread.
१८२
मेघसंदेशे
बाथ सा जनैः । सत्कृता वारमुख्या स्यात्' इत्यमरः । बद्धालापाः
संभावितसंलापाः । कामिनः कामुका: । प्रत्यहमहन्यहनि । 'अव्ययं
विभक्ति–' इत्यादिना समासः । रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां
ते तैः सुन्दरकण्ठध्वनिभिः । धनपतियशः कुबेरकीर्तिम् । उद्गायद्भिरु-
चैर्गायनशीलैः, देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ।
किंनरैः.सार्धं सह । विभ्राजस्येदं वैभ्राजम् । वैभ्राजमित्याख्या यस्य
नद्वैभ्राजाख्यम् । 'विभ्राजेन गणेन्द्रेण त्रातं वैभ्राजमाख्यया' इति
शंभुरहस्ये । चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं चाह्योद्यानं निर्वि-
शन्ति अनुभवन्ति ॥
गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
नैंशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥
गतीति । यत्रालकायाम्। कामिनीनामभिसारिकाणाम् । निशि
भवो नैशो मार्गः । सवितुरुदये सति । गत्या गमनेनोत्कम्पश्चलनं तस्मा-
द्वेतोः । अलकेभ्यः पतितैः । मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां
पत्रलतानां छेदैः खण्डैः ; पतितैरिति शेषः । तथा कर्णेभ्यो विभ्रश्य
न्तीति कर्णविभ्रंशीनि तैः । कनकस्य कमलैः । षष्ठया विवक्षितार्थलाभे
सतिमा विग्रद्देऽध्याहारदोषः । एवमन्यत्राप्यनुसंधेयम् । तथा
मुक्ताजालैर्मोक्तिकंसरैः, शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः