This page has been fully proofread once and needs a second look.

१८२
 
मेघसंदेशे
 
बा
वाथ सा जनैः । सत्कृता वारमुख्या स्यात्' इत्यमरः । बद्धालापाः

संभावितसंलापाः । कामिनः कामुका: । प्रत्यहमहन्यहनि । 'अव्ययं

विभक्ति--' इत्यादिना समासः । रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां

ते तैः सुन्दरकण्ठध्वनिभिः । धनपतियशः कुबेरकीर्तिम् । उद्गायद्भिरु-

च्
चैर्गायनशीलैः, देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ।

किंनरैः.सार्धं सह । विभ्राजस्येदं वैभ्राजम् । वैभ्राजमित्याख्या यस्य

द्वैभ्राजाख्यम् । 'विभ्राजेन गणेन्द्रेण त्रातं वैभ्राजमाख्यया' इति

शंभुरहस्ये । चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं चाबाह्योद्यानं निर्वि-

शन्ति अनुभवन्ति ॥
 

 
गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः

पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।

मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
नैं

र्नै
शो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥
 

 
गतीति । यत्रालकायाम्। कामिनीनामभिसारिकाणाम् । निशि

भवो नैशो मार्गः । सवितुरुदये सति । गत्या गमनेनोत्कम्पश्चलनं तस्मा-

द्वेहेतोः । अलकेभ्यः पतितैः । मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां

पत्रलतानां छेदैः खण्डैः ; पतितैरिति शेषः । तथा कर्णेभ्यो विभ्रश्य

न्तीति कर्णविभ्रंशीनि तैः । कनकस्य कमलैः । षष्ठ्या विवक्षितार्थलाभे
सतिमा

सति मयटा
विग्रद्देहेऽध्याहारदोषः । एवमन्यत्राप्यनुसंधेयम् । तथा

मुक्ताजालैर्मोक्तिकंसरैः, शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः