This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१८१
 
मन्दाकिन्या गङ्गायाः। सलिलेन शिशिरैः शीतलैः । मरुद्भिः सेव्य-

मानाः सत्यः । तथानुतटं तदेषु रोहन्तीत्यनुतटरुहः । क्विप् । तेषां

मन्दाराणाम्। छायया अनातपेन । वारितोष्णाः शमितातपाः सत्यः ।

कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैः । अत एवान्वेष्टव्यै-

र्मृग्यैः । र्मणिभी रत्नैः संक्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्य-

क्क्रीडन्तीत्यर्थः । 'क्क्रीडोऽनुसंपरिभ्यश्च' इत्यात्मनेपदम् । 'रत्नादि-

भिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रीडा नाम्ना गुप्त-

मणिः स्मृता । रासक्रीडा गूढमणिर्गुप्त के लिस्तु लायनम् । पिच्छक-

न्दुकदण्डाद्यैः स्मृता दैशिककेलयः ।' इति शब्दार्णवे ॥
 

 
'यत्र स्त्रीणाम्' इति श्लोकानन्तरम्

 
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-

रुद्रागायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् ।

वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
 

बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥
 

 
अक्षय्येति । यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः । 'क्षय्यनय्यौ

शक्याथेंर्थे' इति निपातः । ततो नञ्समासः । भवनानामन्तः अन्त-
भ॑

र्भ
वनम् । 'अव्ययं विभक्ति' इत्यादिनाव्ययीभावः । अक्षय्या

अन्तर्भवने निधयो येषां ते तथोक्ताः । यथेच्छाभोगसंभावनार्थमिदं

विशेषणम् । विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता

एव सद्दाया येषां ते तथोक्ताः । 'वारस्त्री गणिका वेश्या रूपाजी..
 
-