This page has been fully proofread once and needs a second look.


मलंकृतीनामुदधावदोषे । काव्ये कवीन्द्रस्य नवार्थतीर्थे या व्याचिकीर्षा
मम तां नतोऽस्मि ॥' 'सुकविवचसि पाठानन्यथाकृत्य मोहाद्रसगति-
मवधूय प्रौढमर्थे विहाय । विबुधवरसमाजे व्याक्रियाकामुकाणां गुरु-
कुलविमुखानां धृष्टतायै नमोऽस्तु ॥'
 
अयं च पूर्णसरस्वतीनामा पण्डितमाणः कः ? कतरं देशमलंच-
कार? को वास्य गुरुः १ कश्चास्य जीवयात्राप्रकार: ? इति जिज्ञा-
समानानां न वयमामूलमपनेतुं प्रभवामः कुतूहलम् । यतो बहुधा
तच्चरितावगमाय प्रयतमानानामपि नैतावतापि समग्रमवगतमस्माकं
तच्चरितम् । एतावत्परमवगम्यते-- अयं किल पूर्णसरस्वत्याख्यः
पण्डितमाणः केरलेषु ‘काटमाटस्' इति सुप्रसिद्धे मान्त्रिककुले
लब्धजन्मा कश्चन केरलीयो ब्राह्मण इति । अयं च केरलीय इत्यत्र
नास्ति नः संदेहः । यतोऽयमादावन्ते च पूर्णज्योतिरभिधमीश्वरं स्मर-
ति । स च गोश्रीराज्ये (कोच्चि) 'तृप्पूणित्तुरै' इति सुप्रथिते देशे
महति क्षेत्ररत्ने अद्यापि कृतसंनिधानः । अयं च व्याख्याता मल्लिना-
थादर्वाचीन इति ज्ञायते, यतोऽयं मल्लिनाथीयं व्याख्यानमेव केचि-
दिति तत्र तत्र निर्दिशति । किं च तत्र तत्र अलंकारलक्षणकथनावसरे
शब्दप्रक्रियाप्रकाशनप्रकरणे च प्राचां मम्मटवृत्तिकारादीनां वचना-
न्येव प्रमाणतया प्रदर्शयति, न पुनरप्पयदीक्षितभट्टोजिभट्टप्रभृती-
नाम् । अतश्च संभाव्यते कुवलयानन्दकर्तुः श्रीमतोऽप्पयदीक्षितात्
तत्समकालिकात्सिद्धान्तकौमुदीकाराद्भट्टोजिभट्टादपि प्राचीनोऽयं व्या-
कर्तेति । ततश्च वयं निश्चिनुमः-- अयं व्याख्याता सार्धवर्षशत-