This page has been fully proofread once and needs a second look.

(११)
 

मलंकृतीनामुदधावदोषे
 
। काव्ये कवीन्द्रस्य नवार्थतीर्थे या व्याचिकीर्षा

मम तां नतोऽस्मि ॥' ' सुकविवचसि पाठानन्यथाकृत्य मोहाद्रसगति-

मवधूय प्रौढमर्थे विहाय । विबुधवरसमाजे व्याक्रियाकामुकाणां गुरु
-
कुलविमुखानां धृष्टतायै नमोऽस्तु ॥'
 
:.
 

 
अयं च पूर्णसरस्वतीनामा पण्डितमाणः कः ? कतरं देशमलंच-

कार? को वास्य गुरुः १ कश्चास्य जीवयात्राप्रकार: ? इति जिज्ञां-
ञा-
समानानां न वयमामूलमपनेतुं प्रभवामः कुतूहलम् । यतो बहुषा
धा
तच्चरितावगमाय प्रयतमानानामपि नैतावतापि समग्रमवगतमस्माकं

तच्चरितम् । एतावत्परमवगम्यते-- अयं किल पूर्णसरस्वत्याख्यः

पण्डितमाणः केरलेषु ' काटमाटस् ' इति सुप्रसिद्धे मान्त्रिककुले

लब्धजन्मा कश्चन केरलीयो ब्राह्मण इति । अयं च केरलीय इत्यत्र

नास्ति नः संदेहः । यतोऽयमादावन्ते च पूर्णज्योतिरभिमीश्वरं स्मर-

ति । स च गोश्रीराज्ये ( कोच्चि ) 'तृप्पूणित्तरेतुरै' इति सुप्रथिते देशे

महति क्षेत्ररत्ने अद्यापि कृतसंनिधानः । अयं च व्याख्याता मल्लिना-

थादर्वाचीन इति ज्ञायते, यतोऽयं मल्लिनाथीयं व्याख्यानमेव केचि-

दिति तत्र तत्र निर्दिशति । किं च तत्र तत्र अलंकारलक्षणकथनावसरे

शब्दप्रक्रियाप्रकाशन प्रकरणे च प्राचां मम्मटवृत्तिकारादीनां वचना-

न्येव प्रमाणतथाया प्रदर्शयति, न पुनरप्पयदीक्षितभट्टोजिभट्टप्रभृती-

नाम् । अतश्च संभाव्यते कुवलयानन्दकर्तुः श्रीमतोऽप्पयदीक्षितात्

तत्समकालिकात्सिद्धान्तकौमुदीकाराद्भट्टोजिभट्टादपि प्राचीनोऽयं व्या-

कर्तेति । ततश्च वयं निश्चिनुमः-- अयं व्याख्याता सार्धवर्षशत-
-