This page has not been fully proofread.

१८०
 
मेघसंदेशे
 
आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै-
र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यन्यस्मात्मणयकलहाद्विमयोगोपपत्ति-
वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥
 
आनन्देति। यत्रालकायाम्। वित्तेशानां यक्षाणाम्। 'वित्ताधिपः
कुबेर: स्यात्प्रभौ धनिकयक्षयोः' इति शब्दार्णवे । आनन्दोत्थमा-
नन्दजन्यमेव। नयनसलिलम्। अन्यैर्निमित्तैः शोकादिभिर्न। इष्टसंयो-
गेन प्रियजनसमागमेन साध्यान्निवर्तनीयात्, न त्वप्रतीकार्यादित्यर्थः।
कुमुमशरजात् मदनशरजात् । अन्यस्तापो नास्ति । प्रणयकलहाद-
न्यस्मात्कारणात् । विप्रयोगोपपत्तिर्विरहप्रातिरपि नास्ति । किं च
यौवनादन्यद्वयो वार्धकं नास्ति । श्लोकद्वयं प्रक्षिप्तम् ॥
 
"
 
'यस्यां यक्षाः' इति श्लोकानन्तरम्
मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-
र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः ।
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः॥
संक्रीडन्ते मणिभिरमरमार्थिता यंत्र कन्याः ॥
 
मन्दाकिन्या इति । यत्रालकायाम्। अमरैः प्रार्थिताः, सुन्दर्यं
इत्यर्थः । कन्या यक्षकुमार्यः । 'कन्या कुमारिकानार्योः' इति विश्वः ।