This page has been fully proofread once and needs a second look.

१८०
 
मेघसंदेशे
 
आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै-

र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।

नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्ति-

र्
वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥
 

 
आनन्देति। यत्रालकायाम्। वित्तेशानां यक्षाणाम्। 'वित्ताधिपः

कुबेर: स्यात्प्रभौ धनिकयक्षयोः' इति शब्दार्णवे । आनन्दोत्थमा-

नन्दजन्यमेव। नयनसलिलम्। अन्यैर्निमित्तैः शोकादिभिर्न। इष्टसंयो-

गेन प्रियजनसमागमेन साध्यान्निवर्तनीयात्, न त्वप्रतीकार्यादित्यर्थः।

कुमुसुमशरजात् मदनशरजात् । अन्यस्तापो नास्ति । प्रणयकलहाद-

न्यस्मात्कारणात् । विप्रयोगोपपत्तिर्विरहप्राप्तिरपि नास्ति । किं च

यौवनादन्यद्वयो वार्धकं नास्ति । श्लोकद्वयं प्रक्षिप्तम् ॥
 
"
 

 
'यस्यां यक्षाः' इति श्लोकानन्तरम्

 
मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-

र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः ।

अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः॥

संक्रीडन्ते मणिभिरमरमाप्रार्थिता यंत्र कन्याः ॥
 

 
मन्दाकिन्या इति । यत्रालकायाम्। अमरैः प्रार्थिताः, सुन्दर्यं

इत्यर्थः । कन्या यक्षकुमार्यः । 'कन्या कुमारिकानार्योः' इति विश्वः ।