This page has been fully proofread once and needs a second look.

द्वितीयाश्वावांसः
 
स्थितवन्तः । अत एव चन्द्रहासस्य रावणासेर्ब्व्रणानि क्षतान्ये -
नि

वाड़्काश्चिह्नानि
तैः । 'चन्द्रहासो रावणासावसिमात्रेऽपि च क्वचित् '
 

इति
शाश्वतः । प्रत्यादिष्टाभरणरुचयः प्रतिषिद्धभूषणकान्तयः । शस्त्र-

प्रहा
रा एवं वीराणां भूणमिति भावः । अत्रापि भाविकालंकारः ॥

 
द्वितीयाश्वासे
 

 
'हस्ते लीलाकमलम्' इति श्लोकानन्तरम्
 

 
यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा

हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ।

केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा

नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥
 

 
यत्रेति । यत्रालकायाम् । पादपा वृक्षाः । नित्यानि पुष्पाणि येषां

ते
तथा, न तृत्वृतुनियमादिति भावः । अत एवोन्मत्तैर्भ्रमरैर्मुखराः
-

शब्
दायमानाः । नलिन्यः पद्मिन्यः नित्यानि पद्मानि यासां तास्तथा,

तु हेमन्तवर्जितमित्यर्थः । अत एव इंहंसश्रेणीभी रचितरशनाः

नित्
यं हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूराः । नित्यं

भा
स्वन्तः कलापा बर्हाणि येषां ते तथोक्ताः, न तु वर्षास्वेव ।
 

अत
एव केकाभिरुत्कण्ठा उद्गीवाः । प्रदोषा रात्रयः नित्यं

ज्योत्स्
ना येषां ते, न तु शुक्लपक्ष एव । अत एव प्रतिहता तमसां

वृत्ति
र्व्याप्ति ते च ते रम्याश्चेति तथोक्ताः ॥