This page has not been fully proofread.

१७८
 
मेघसंदेशे
 
प्रद्योतस्येति । अत्र प्रदेशे। वत्सराजो बत्सदेशाधीश्वर उदयनः ।
प्रद्योतस्य नामोजयिनीनायकस्य राशः । प्रियदुहितरं वासवदत्ताम् ।
जद्दू जद्दार । अत्र स्थले । तस्यैव शशः प्रद्योतस्य । हैमं सौवर्णम् ।
तालद्रुमवनमभूत् । अत्र नलगिरिर्नामेन्द्रदत्तस्तदीयो गजः । दर्पात्
मदात् । स्तम्भम् आलानम् उत्पाठ्य उद्धृत्य । उद्घान्त उत्पत्य
भ्रमणं कृतवान् । इति इत्थंभूताभिः कथाभिरित्यर्थः । अभिशः
पूर्वोक्तकथाभिशः कोविदो जनः । आगन्तून् देशान्तरादागतान् ।
औणादिकस्तुन्प्रत्ययः । बन्धून् । यत्र विशालायाम् । रमयति विनो-
दयति! अत्र भाविकालंकारः । तदुक्तम्– 'अतीतानागतं यत्र
प्रत्यक्षत्वेन लक्ष्यते। अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ।' इति ॥
पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः
शैलोदग्रास्त्वमित्र करिणो दृष्टिमन्तः प्रभेदात् ।
योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
प्रत्यादिष्टाभरणरुचयञ्चन्द्रहासत्रणाङ्कैः ॥
 
पत्रेति। हे जलद, यत्र विशालायाम् । वाहा इयाः । पत्रश्यामाः
पलाशवर्णाः। अत एव दिनकरइयस्पर्धिनः वर्णतो वेगतश्च सूर्याश्वक-
रूपाः। तथा शैलोदग्राः शैलवदुन्नताः । करिणः प्रभेदात् मदस्रावात्
देतोः । त्वमिव वृष्टिमन्तः । अनं नयन्तीत्यग्रण्यः । 'सत्सू द्विप–' इत्या-
दिना क्विप्। ' अग्रग्रामाभ्यां नयतेः' इति वक्तव्याण्णत्वम्। योधाना-
मग्रण्यो भटश्रेष्ठाः। संयुगे युद्धे । प्रतिदशमुखम् अभिरावणम्। तस्थि-
वांस
 
वाइ
 
इति
 
प्र
 
ते
 

 

 
नि
 
भा
 
15
 
ज्य