This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गा-

न्संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥
 
१७७
 

 
हारानिति । यस्यां विशालायाम् । कोटिशः । विपणिषु पण्यवीथि-

कासु । 'विपणिः पण्यवीथिका' इत्यमरः । रचितान् प्रसारिवान् ।
तान् ।
इदं विशेषणं यथालिङ्गं सर्वत्र संबध्यते । तारान् शुद्धान् । 'तारो

मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके' इति विश्वः। तरलगुटिकान् मध्य-

मणीभूतमहारत्नान् । 'तरलो हारमध्यगः' इत्यमरः । 'पिण्डे मणौ
मद्दार

महारत्
ने गुटिका बद्धपारदे' इति शब्दार्णवे । हारान् मुक्तावलीः ।

तथा कोटिशः शङ्खांश्च शुक्तीश्च मुक्तास्फोटांश्च । 'मुक्तास्फोटः स्त्रियां

शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ' इत्यमरः । शप्ष्पं चाबालतृणं तद्वच्छ्या-

मान् । 'शष्पं बालतृणं घासो यवसं तृणमर्जुनम्' इत्यमरः । उन्म-

यूखप्ररोद्दाहान् उद्गतरश्म्यङ्कुरान् । मरकतमणीन् गारुडरत्नानि । तथा

विद्रुमाणां भङ्गान् प्रवालखण्डांश्च । दृष्ट्वा । सलिलनिधयः समुद्राः ।

तोयमात्रमवशेषो येषां ते तादृशाः । संलक्ष्यन्ते तथानुमीयन्त इत्यर्थः ।

रत्नाकरादप्यतिरिच्यते रत्नसंपद्भिरिति भावः ॥
 

 
प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र ज
ह्रे
हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः ।

अत्रोद्धान्तः किल नलगिरिः स्तम्भमुत्पाव्ट्य दर्पा-

दित्यागन्तून्रमयति जनो यत्र बन्धूनभिज्ञः ॥
 
M. 12