This page has not been fully proofread.

अनेन व्याख्यात्रा अनुद्धृतानि मल्लिनाथेन
व्याख्यातानि पद्यानि ।
प्रथमाश्वाशे
 
हे सौर्यम् ।
 
'नीपं दृष्ट्वा' इति पद्यानन्तरम्
 
अम्भोविन्दुग्रहणचतुरांचातकान्वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥
प्रक्षिप्तमपि व्याख्यायते । अम्भ इति । अम्भोबिन्दूनां वर्षों
दविन्दूनां ग्रहणे 'सर्वेसहापतितमम्बु न चातकस्य हितम्' इति
शास्त्राद्भूस्पृष्टोदकत्य तेषां रोगहेतुत्वादन्तराल एव स्वीकारे । चतुरान्
चातकान् । बीश्चमाणाः कौतुकात्पश्यन्तः । श्रेणीभूताः बद्धपङ्कीः ।
अभूततद्भावे च्विः । वलाका बकपङ्की: । परिगणनया एका द्वे तिस्र
इति संख्यानेन। निर्दिशन्तो इस्तेन दर्शयन्तः । सिद्धाः। स्तनितसमये
त्वद्गर्जितकाले । सोत्कम्पानि उत्कम्पपूर्वकाणि । प्रियसहचरीणां संभ्रमे-
णालिङ्गितानि आसाद्य। स्वयंग्रहणाश्लेषसुखमनुभूयेत्यर्थः। त्वां मान-
यिष्यन्ति ; त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥
 
'दीर्घीकुर्वन्' इति श्लोकानन्तरम्
दारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः
शष्पश्यामान्मरकतमणीनुन्मयूखमरोहान् ।