This page has been fully proofread once and needs a second look.

अनेन व्याख्यात्रा अनुद्धृतानि मल्लिनाथेन
व्याख्यातानि पद्यानि ।

 
प्रथमाश्वाशे
 
हे सौर्यम् ।
 

 
'नीपं दृष्ट्वा' इति पद्यानन्तरम्
 

 
अम्भोविबिन्दुग्रहणचतुरांश्चातकान्वीक्षमाणाः

श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।

त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः

सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥

 
प्रक्षिप्तमपि व्याख्यायते । अम्भ इति । अम्भोबिन्दूनां वर्षों
षो-
विबिन्दूनां ग्रहणे 'सर्वेवंसहापतितमम्बु न चातकस्य हितम्' इति

शास्त्राद्भूस्पृष्टोदकत्स्य तेषां रोगहेतुत्वादन्तराल एव स्वीकारे । चतुरान्

चातकान् । बीश्चवीक्षमाणाः कौतुकात्पश्यन्तः । श्रेणीभूताः बद्धपङ्कीः ।
क्तीः ।
अभूततद्भावे च्विः । लाका बकपङ्की:क्तीः । परिगणनया एका द्वे तिस्र

इति संख्यानेन। निर्दिशन्तो स्तेन दर्शयन्तः । सिद्धाः। स्तनितसमये

त्वद्गर्जितकाले । सोत्कम्पानि उत्कम्पपूर्वकाणि । प्रियसहचरीणां संभ्रमे-

णालिङ्गितानि आसाद्य। स्वयंग्रहणाश्लेषसुखमनुभूयेत्यर्थः। त्वां मान-

यिष्यन्ति ; त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥
 

 
'दीर्घीकुर्वन्' इति श्लोकानन्तरम्
दा

 
हा
रांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः

शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् ।