This page has not been fully proofread.

१७४
 
मेघसंदेशे
 
• जलानां नीरसदुस्तार्किकाणां खण्डक अथवा रसातिशयजनकत्वेन
सहृदयानामानन्दबाप्पजलदायिन्, हे श्रोतः, व्याख्यातश्च प्रावृडिति
सुखशीतळकालोपलक्षणम् । रसानुभव विनोदात्सुखायमानेन कालेन
जनितशोभः । अथ वा प्रावृडिति समयवर्षितया राजावली लक्ष्यते ।
तया गुणगणाह्लादितया वितीर्णधनधान्यादिरूपलक्ष्मीयुक्तः । एवमि-
ति, अभिनयेन पुरोवर्ती सुखदुःखाभ्यां लिष्टविशिष्टो लोक इवेति
वैधर्म्यदृष्टान्तः प्रदश्यते। विद्युदिव चञ्चलत्वात् विशेषेण द्योत-
नाच पूर्वप्रस्तुता श्रीर्विद्युदित्यभ्यवसीयते; तथा वियोगश्च मा भूत्
श्रीः सिध्यतु, तया सततमविरद्दश्च भूयादित्याशिषा श्रीशब्दप्रयो
 
गाच एतत्काव्यश्रोतृव्याख्यात्रादीनामभङ्गुरमङ्गलसंपत्तिरित्यशेषमति-
मङ्गलम् ॥ ४७ ॥
 
पूर्णसरस्वत्याख्यः पूर्णज्योतिःपदाब्जपरमाणुः ।
मेघस्य विवृतिमेतां विद्धे विद्युल्लतां नाम्ना ॥
 
विद्युद्धताकृतोद्योतं मेघं दृष्ट्वा रसस्रुतम् ।
नर्तनेऽपि प्रवर्तन्तां मत्ताः केऽपि कलापिनः ॥
 
सुकविवचसि पाठानन्यथाकृत्य मोहा-
द्रसगतिमवधूय प्रौढमर्थं विहाय ।
विबुधवरसमाजे व्याक्रियाकामुकाणां
गुरुकुलविमुखानां धृष्टतायै नमोऽस्तु ॥
 
यस्य मासा जगद्भाति यद्भासा माति मन्महः ।
भविद्याविद्विषे तस्मै श्रीपूर्णज्योतिषे नमः ॥