This page has been fully proofread once and needs a second look.

१७४
 
मेघसंदेशे
 
जलानां नीरसदुस्तार्किकाणां खण्डक अथवा रसातिशयजनकत्वेन

सहृदयानामानन्दबाप्वाष्पजलदायिन्, हे श्रोतः, व्याख्यातश्च प्रावृडिति

सुखशीतकालोपलक्षणम् । रसानुभव विनोदात्सुखायमानेन कालेन

जनितशोभः । अथ वा प्रावृडिति समयवर्षितया राजावली लक्ष्यते ।

तया गुणगणाह्लादितया वितीर्णधनधान्यादिरूपलक्ष्मीयुक्तः । एवमि-

ति, अभिनयेन पुरोवर्ती सुखदुःखाभ्यां श्लिष्टविशिष्टो लोक इवेति

वैधर्म्यदृष्टान्तः प्रदश्यते। विद्युदिव चञ्चलत्वात् विशेषेण द्योत-

नाच्च पूर्वप्रस्तुता श्रीर्विद्युदित्यभ्यवसीयते ; तथा वियोगश्च मा भूत्

श्रीः सिध्यतु, तया सततमविरद्दश्च भूयादित्याशिषा श्रीशब्दप्रयो
 

गाच्च एतत्काव्यश्रोतृव्याख्यात्रादीनामभङ्गुरमङ्गलसंपत्तिरित्यशेषमति-

मङ्गलम् ॥ ४७ ॥
 

 
पूर्णसरस्वत्याख्यः पूर्णज्योतिःपदाब्जपरमाणुः ।

मेघस्य विवृतिमेतां विद्धे विद्युल्लतां नाम्ना ॥
 

 
विद्युद्धल्लताकृतोद्योतं मेघं दृष्ट्वा रसस्रुतम् ।

नर्तनेऽपि प्रवर्तन्तां मत्ताः केऽपि कलापिनः ॥
 

 
सुकविवचसि पाठानन्यथाकृत्य मोहा-

द्रसगतिमवधूय प्रौढमर्थं विहाय ।

विबुधवरसमाजे व्याक्रियाकामुकाणां

गुरुकुलविमुखानां धृष्टतायै नमोऽस्तु ॥
 
यस्य मा

 
यस्य भा
सा जगद्भाति यद्भासा माभाति मन्महः ।

विद्याविद्विषे तस्मै श्रीपूर्णज्योतिषे नमः ॥