2023-02-17 12:54:50 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः ।
१७३
क्लिष्टे जने सतां जीमूतवाहनादीनामिव दयामयत्वेन परित्राणप्रवृत्त्यौ-
चित्यादिति भावः । सौहार्दाद्वा अनुक्रोशबुद्धया वेति विकल्पेन द्वयो-
रेकस्यापि प्रवर्तकत्वम्; किं पुनरेकत्र समुदितयोर्द्वयोरपीति ध्वन्यते ।
दृष्टान् अभिमतभोगसाधनसामग्या विचरितुमभिरुचितान् । देशान्
स्वर्गादीन् । बहुवचनेन क्वचिद्देशे कदाचिद्वर्षाः, अन्यत्रान्यदा;
अतो यत्र यत्र स्वानुकूलः कालो वर्तते, तत्र तत्र पर्यटनं कार्य-
मिति द्योत्यते । विचर विविधप्रकारैः पुष्पमेघत्वादिभिः परिक्राम ।
जलद समुचितप्रदेशवर्षणपर । अनेन तत्तद्देश्यानामपि त्वदुपगमः
प्रमोदायेति योत्यते । प्रावृषा संभृतश्री: पूर्वोक्तनीत्या नित्यं वर्षर्तु-
ना संपादिता शिखण्डिताण्डवचलाकाभिगमकदम्बसौरभसुरपति-
शरासनादिशोभिनी समृद्धिर्यस्य । एवं यथा मम मत्प्रियतमयेति
त्र्यतिरेकदृष्टान्तः । क्षणमपि कालकलामपि । विद्युता निजप्रियतमया
चरमसुषमासंपादिन्या सौदामिन्या । विप्रयोगश्च मा भूदित्यन्वयः ।
षा यक्षवचनत्वेन योजना । अथ कविवचनत्वेन योज्यते – एतत्
घसंदेशत्वेन प्रारब्धं संपूर्ण चेदं काव्यम् । कृत्वा गुरुमुखेन शिक्षि-
वा, 'कृतास्त्रः कृतविद्यः कृतहस्तः' इतिवत् । प्रियं रससंरम्भेण
दरं निर्मितत्वात् । अनुचितप्रार्थनावर्त्मनः सतां गुणग्रहण लोभेन
वयमेव प्रवृत्त्युपपत्तेर्मम त्वेतन्निरीक्षणप्रार्थना अनुचितेत्यर्थः 1 सौद्दा-
त् मात्सर्यादिदोषोत्सारण विशुद्धहृदयतया । विधुरः एतद्विरचना-
नसक्लेशितः । अनुक्रोशबुद्धया दाक्षिण्येन 'प्रणयिषु वा दाक्षिण्यात्'
इत्युक्तत्वात् । इष्टान् देशान् यत्र यत्र रुच्यनुरोधेन गम्यते, तत्र
तत्रैतच्छीलनोन्मीलितमनीषस्य रसिकसदसि सत्कारलाभात् । जलद