This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१७३
 
क्लिष्टे जने सतां जीमूतवाहनादीनामिव दयामयत्वेन परित्राणप्रवृत्त्यौ-

चित्यादिति भावः । सौहार्दाद्वा अनुक्रोशबुद्ध्या वेति विकल्पेन द्वयो-

रेकस्यापि प्रवर्तकत्वम् ; किं पुनरेकत्र समुदितयोर्द्वयोरपीति ध्वन्यते ।
दृ

ष्टान् अभिमतभोगसाधनसामग्र्या विचरितुमभिरुचितान् । देशान्

स्वर्गादीन् । बहुवचनेन क्वचिद्देशे कदाचिद्वर्षाः, अन्यत्रान्यदा ;

अतो यत्र यत्र स्वानुकूलः कालो वर्तते, तत्र तत्र पर्यटनं कार्य-

मिति द्योत्यते । विचर विविधप्रकारैः पुष्पमेघत्वादिभिः परिक्राम ।

जलद समुचितप्रदेशवर्षणपर । अनेन तत्तद्देश्यानामपि त्वदुपगमः

प्रमोदायेति द्योत्यते । प्रावृषा संभृतश्री: पूर्वोक्तनीत्या नित्यं वर्षर्तु-

ना संपादिता शिखण्डिताण्डवलाकाभिगमकदम्बसौरभसुरपति-

शरासनादिशोभिनी समृद्धिर्यस्य । एवं यथा मम मत्प्रियतमयेति
त्र्

व्
यतिरेकदृष्टान्तः । क्षणमपि कालकलामपि । विद्युता निजप्रियतमया

रमसुषमासंपादिन्या सौदामिन्या । विप्रयोगश्च मा भूदित्यन्वयः ।

षा यक्षवचनत्वेन योजना । अथ कविवचनत्वेन योज्यते-- एतत्

मे
घसंदेशत्वेन प्रारब्धं संपूर्णं चेदं काव्यम् । कृत्वा गुरुमुखेन शिक्षि-

त्
वा, 'कृतास्त्रः कृतविद्यः कृतहस्तः' इतिवत् । प्रियं रससंरम्भेण

सा
दरं निर्मितत्वात् । अनुचितप्रार्थनावर्त्मनः सतां गुणग्रहण लोभेन

स्
वयमेव प्रवृत्त्युपपत्तेर्मम त्वेतन्निरीक्षणप्रार्थना अनुचितेत्यर्थः 1 सौद्हा-
र्
दा-
त् मात्सर्यादिदोषोत्सारण विशुद्धहृदयतया । विधुरः एतद्विरचना-

या
सक्लेशितः । अनुक्रोशबुद्ध्या दाक्षिण्येन 'प्रणयिषु वा दाक्षिण्यात्'

इत्युक्तत्वात् । इष्टान् देशान् यत्र यत्र रुच्यनुरोधेन गम्यते, तत्र

तत्रैतच्छीलनोन्मीलितमनीषस्य रसिकसदसि सत्कारलाभात् । जलद