This page has not been fully proofread.

१७२
 
मेघसंदेशं
 
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशयुद्ध्या ।
इष्टान्देशाञ्जलद विचर मातृषा संभृतश्री-
र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥४७॥
 
-
 
अथाभ्युपगतकार्याय मुदितचेतसे प्रतिष्ठमानाय पयोमुचे स्वाभिमत-
करणोद्योगपरितुष्टेन गुह्यकश्रेष्ठेन प्रयुज्यमानामाशिषं द्वारीकृत्य रसिक-
जुनचातकालिकालमेघः कालिदासः प्रारब्धं मेघसंदेशं परिसमाप्य
ब्याख्यातृश्रोतृन्प्रति परमाशीर्वचनं प्रयुडे – एतत्कृत्वेत्यादि । एतत्
प्रस्तुतम्; कार्यमिति शेषः कृत्वा अनुष्ठाय प्रियम् इष्टम्, प्रियत-
माप्रेमग्रहगृद्दीततामात्रेणौचित्यमनवेक्ष्य प्रस्तुतत्वात् ; तदाइ-अनुचि-
तप्रार्थनावर्त्मनः 'न हि प्रकृष्टाः ग्रेप्यन्ते प्रेष्यन्ते हीतरे जनाः' इति
न्यायात् सुरपतिसाचिव्यभव्यस्य भवतो लघीयसि दूतकर्मणि यो नियो-
गः, तद्रूपे अनुचिते वस्तुनि याञ्चाप्रकारौ यस्य । ममैव नियोक्तुस्तदनु-
चितम्, नियोज्यस्य भवतः प्रत्युत भूषणमेव तदिति हेतुयेनाइ--
सौद्दादांत् मुहृद्भाचात्, मित्रत्वादित्यथैः ; मित्रकार्ये का पुनरुचिता-
नुचितचिन्ता, 'सारथ्यपारिषदसेवनसख्यदौत्यवीरासनानुगमनस्तव-
नप्रणामैः । स्निधेषु पाण्डुषु जगत्प्रणतस्य विष्णोर्भक्ति चकार नृपति-
श्वरणारविन्दे ॥' इत्युक्तेर्भगवतोऽपि त्रिभुवनगुरोर्लक्ष्मीपतेः सुहृत्पक्ष-
पातेन तत्तदनुचितकर्मप्रवृत्तेरिति भावः । हेत्वन्तरमाह — विधुरः
विरहक्लिष्ट इति देतोः । मय्यनुक्रोशत्रुद्धया वा ईदृशदशा विशिष्ट
पुरोवर्तिनि मयि कारुण्यबुद्ध्या या; सौहार्दमन्तरेणापि तत्कालदृष्टेऽपि