2023-02-18 16:48:41 by manu_css
This page has been fully proofread once and needs a second look.
साधु निरूपितः । तत्र तत्र शङ्कासमाधाने च सयुक्तिप्रमाणं प्रदर्शिते ।
रसगमनिका च रम्यतरं विचारिता । कोशव्याकरणादिकं च नि-
पुणं निरूपितम् । अलंकारश्च सातिशयं विवेचितः । व्यङ्यारमर्थश्च
विशेषेण विशदीकृतः, यः किल मल्लिनाथेन मनसापि न कलितः ।
समादृतश्च समीचीनतरः पाठः, यो बहुत्र मल्लिनाथीयेन पाठेन
विसंवदति, संवदति च पार्श्वाभ्युदयस्थितेन तेन तेन पाठेन ।
इदं पुनरन्यादृशमस्य व्याख्यानस्य सौभाग्यसर्वस्वम्, यदय-
मेतत्काव्यश्रवणपठनजन्यं प्रयोजनमत्र विचारयति[^1] । यद्यप्यलंकार-
लाक्षणिकैः 'काव्यं यशसे' इत्यादिना काव्यस्य प्रयोजनानि प्रति-
पादितान्येव, अथापि विहाय पूर्णसरस्वतीं न किल कश्चिदपि
व्याख्याता व्याख्येये काव्ये शृङ्गग्राहिकया एवमेतावत्सु गणरात्रेषु
फलं नाम प्रत्यपादयत्; यथा अनेन प्रतिपादितं व्याख्याता । इद-
मेव हि नव्यानां विमर्शकानां सर्वात्मना संवननम् । एवं प्रातिस्वि-
कतया फलविचारादिकं भारतीयानां पण्डितानां व्याख्यातॄणां च न
परिचितचरमित्युच्चैरुद्धुष्यन्तो नव्या विमर्शका अपि, मन्यामहे,
दृष्ट्वेदं व्याख्यातुः कौशलमतिमात्रमाश्चर्यपरवशा भवेयुः । किं बहुना--
नास्ति कापि न्यूनता अस्मिन्व्याख्याने, या दोषैकगवेषणपरताया-
मपि विमर्शकानां स्फुरिष्यति । इमे च व्याख्यातुरादावन्ते च वि-
द्यमाने पद्ये व्याख्यातुराशयं व्याख्यायाश्च गमनिकां स्फुटं प्रकटयिष्यत
इति ते एते सहृदयेभ्य उपहरिष्यामः-- 'निधौ रसानां निलये गुणांना-