This page has not been fully proofread.

(१०).
 
प्रतिपदानि विवरणतया प्रकटितानि ! पदार्थप्रदर्शनपूर्वकं वाक्यार्थः
साधु निरूपितः । तत्र तत्र शङ्कासमाधाने च सयुक्तिप्रमाणं प्रदर्शिते ।
रसगमनिका च रम्यतरं विचारिता । कोशव्याकरणादिकं च नि-
पुणं निरूपितम् । अलंकारश्च सातिशयं विवेचितः । व्यङ्गयार्थच
विशेषेण विशदीकृतः, यः किल मल्लिनाथेन मनसापि न कलितः ।
समादृतथ समीचीनतरः पाठः, यो बहुत्र मल्लिनाथीयेन पाठेन
विसंवदति, संवदति च पार्श्वाभ्युदयस्थितेन तेन तेन पाठेन ।
इदं पुनरन्यादृशमस्य व्याख्यानस्य सौभाग्यसर्वस्वम्, यदय-
मेतत्काव्यभवणपठनजन्यं प्रयोजनमत्र विचारयति । यद्यप्यलंकार-
लाक्षणिकैः 'काव्यं यशसे' इत्यादिना काव्यस्य प्रयोजनानि प्रति-
पादितान्येव, अथापि विहाय पूर्णसरस्वतीं न किल कश्चिदपि
व्याख्याता व्याख्येये काव्ये शृङ्गमाहिकया एवमेतावत्सु गणरात्रेषु
फलं नाम प्रत्यपादयत्; यथा अनेन प्रतिपादितं व्याख्यात्वा । इद-
मेव हि नव्यानां विमर्शकानां सर्वात्मना संवननम् । एवं प्रातिस्वि-
कतया फळविचारादिकं भारतीयानां पण्डितानां व्याख्यातॄणां च न
परिचितचरमित्युच्चैरुद्धुष्यन्तो नव्या विमर्शका अपि, मन्यामद्दे,
दृष्ट्वेदं व्याख्यातुः कौशलमतिमात्रमाश्चर्यपरवशा भवेयुः । किं बहुना-
नास्ति कापि न्यूनता अस्मिन्व्याख्याने, या दोषैकगवेषणपरताया-
मपि विमर्शकानां स्फुरिष्यति । इमे च व्याख्यातुरादावन्ते च वि
यमाने पद्ये व्याख्यातुराशयं व्याख्यायाश्च गमानेकां स्फुटं प्रकटयिष्यत
इति ते एते सहृदयेभ्य उपहरिष्यामः- 'निधौ रसानां निलये गुणांना.
1. दृश्यतां ६ पुढे ९ पडिमारभ्य विद्यमानो विचारः: 1
 
:*