This page has not been fully proofread.

मेघसंदेशे
 
इत्यर्थः । अभोगात् भोगाभावात्, भोगे हि भोजन इव क्षुषो रसस्य
क्षयः शनैर्भवत्यपीत्यर्थः । इष्टे वस्तुनि बुभुक्षिते पदार्थे। वस्तुनीति,
न केवलं प्रियाविषय एवायं नयः; अपि तु सर्वस्मिन्भाव इति द्यो-
त्यते। उपचितरसाः तदा तदानुचिन्तया प्रतिक्षणप्रवृद्धरागाः ।
प्रेमराशीभवन्ति यथा ब्रीह्यादयोऽनुपभुज्यमानाः सजातीयप्रक्षेपेण
प्रतिदिनमुपचीयमानाः कालतः पर्वतवत्परिवर्धन्ते, एवं काष्ठागतप्रे-
मपुञ्जतया परिणमन्तीत्यर्थः । यत एवम्; अतः प्रतिदिनोप-
चीयमानप्रेमरसविसरविवशमनसि त्वदुपसरणाशाधारितजीवि
विश्वासिनी भूत्वा धैर्यभवलम्ब्य स्वजीवितपरिरक्षणाय प्रि-
यतमे प्रयतेथा इति भूयश्वाहेत्यन्वयः । अत्राप्रस्तुतप्रशंसा, अर्था
•न्तरन्यासो वालंकारः । 'तव सहचरो रामगिर्याश्रमस्थः इत्यार-
भ्य 'मय्यावश्वासिनी भूः' इति 'भूयश्वाह इत्यन्तस्य प्रकरणस्य
संदेशत्वात् तस्य च परिसमातत्वात् ' एवं ब्रूयाः' इति क्रिययान्व-
बो ज्ञेयः ॥ ४५ ॥
 
१७०
 
.
 
कञ्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
निःशब्दो हि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं तु मणयिषु सतामीप्सितार्थक्रियैव ॥ ४६॥
अथैवं संदेशप्रकारं परिसमाप्य, तच्छ्रवणकृताबधानस्य दौत्या-
बलम्बिनोऽम्बुवाद्दस्य तूष्णींभवतोऽपि स्वकार्यकरणेऽनुमतिं परिकल्प्य
 
सानु
 
पश्लो
 
मरः
 
जनम्
 
करुण
 
व्यत्वे
 
नुष्ठा
 
शात्
 
कृत्वे
 
कारे
 
कल्पय
 
नियो
 
भावे
 
प्रसिद्ध
 
र्थ इस
 
चितः
 
चातक
 
अयमे
 
विशेषे
 
म्भाणा
 
तुमिष्ट
 
गर्जित