This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
इत्यर्थः । अभोगात् भोगाभावात्, भोगे हि भोजन इव क्षुषो रसस्य
धो रसस्य
क्षयः शनैर्भवत्यपीत्यर्थः । इष्टे वस्तुनि बुभुक्षिते पदार्थे। वस्तुनीति,

न केवलं प्रियाविषय एवायं नयः ; अपि तु सर्वस्मिन्भाव इति द्यो-

त्यते। उपचितरसाः तदा तदानुचिन्तया प्रतिक्षणप्रवृद्धरागाः ।

प्रेमराशीभवन्ति यथा ब्व्रीह्यादयोऽनुपभुज्यमानाः सजातीयप्रक्षेपेण

प्रतिदिनमुपचीयमानाः कालतः पर्वतवत्परिवर्धन्ते, एवं काष्ठागतप्रे-

मपुञ्जतया परिणमन्तीत्यर्थः । यत एवम्; अतः प्रतिदिनोप-

चीयमानप्रेमरसविसरविवशमनसि त्वदुपसरणाशाधारितजीवि
ते मयि
विश्वासिनी भूत्वा धैर्यवलम्ब्य स्वजीवितपरिरक्षणाय प्रि-

यतमे प्रयतेथा इति भूयश्वाचाहेत्यन्वयः । अत्राप्रस्तुतप्रशंसा, अर्था
-
न्तरन्यासो वालंकारः । 'तव सहचरो रामगिर्याश्रमस्थः इत्यार-

भ्य 'मय्यावयविश्वासिनी भूः' इति 'भूयश्वाचा' इत्यन्तस्य प्रकरणस्य

संदेशत्वात् तस्य च परिसमाप्तत्वात् ' एवं ब्रूयाः' इति क्रिययान्व-
बो

यो
ज्ञेयः ॥ ४५ ॥
 
१७०
 
.
 

 
ञ्च्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे

प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।

निःशब्दो हि प्रदिशसि जलं याचितश्चातकेभ्यः

प्रत्युक्तं तु प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ४६॥

 
अथैवं संदेशप्रकारं परिसमाप्य, तच्छ्रवणकृताधानस्य दौत्या-

लम्बिनोऽम्बुवाद्दस्य तूष्णींभवतोऽपि स्वकार्यकरणेऽनुमतिं परिकल्प्य
 
सानु
 
पश्लो
 
मरः
 
जनम्
 
करुण
 
व्यत्वे
 
नुष्ठा
 
शात्
 
कृत्वे
 
कारे
 
कल्पय
 
नियो
 
भावे
 
प्रसिद्ध
 
र्थ इस
 
चितः
 
चातक
 
अयमे
 
विशेषे
 
म्भाणा
 
तुमिष्ट
 
गर्जित
 
,