This page has not been fully proofread.

१६८
 
मेघसंदेशे
 
राज्ये प्रवर्तमानेऽपि रतिखेदसादवशेनेषन्निद्रां प्राप्येत्यर्थः । सत्वरं
रुदती अदृष्टपूर्वमदीयप्रणयापराधदर्शनप्रचण्डखण्डनोद्दण्डमन्युसंभार
विवशतया मुक्तकण्ठं प्ररुदितेत्यर्थः । विप्रबुद्धा व्याकुलं प्रबुद्धा,
असीत्यन्वयः । सान्तसिं प्रबोधानन्तरमेव प्रेमकाष्ठाप्रतिष्ठितनिज-
हृदयातिशङ्कानुगुणोन्मेषेण स्वप्नदर्शनेन स्वस्याः प्रतारितत्वमवगम्य
समुल्लसितमन्दस्मितमिति कथनक्रियाविशेषणम् । असकृत् पृच्छते
त्वत्क्षोभदर्शनकम्पितहृदयतया किमिदममृतहासिनि कथय कथयेति
सशफथं पुनः पुनरनुयुञ्जानाय । चकारः प्रबोधेन कथनं समुच्चि-
नोति । कितव बञ्चक । अनेन स्वप्न इति ऋजुधियो मे प्रतिभाति;
कितवेन त्वया तु साक्षादेव तथा समाचरितं न वेति दैवं जानातीति
तस्याः प्रणयकोपानुवृत्तिः प्रेमातिशङ्कामौग्ध्यं च ध्वन्यते । रमयन्
आलिङ्गनादिभिरुपचरन् । कामपि रमयन् दृष्ट इत्यनेन आवेगाज्झ-
टिति प्रबोधेन नायिकान्तरस्य विशेषानालोचनम्, ततश्च दृष्ट इति
दर्शनमेव कृतम्, न तु तदनन्तरभावि चरणताडनादि प्रयुक्तमि-
न्यनुतापौ ब्यज्यते । त्वं मयेति, त्वमेव मयैव स्वप्नेऽप्येवं दृश्यस
इत्यतः क्रिमरुंतुदं ममेति प्रतीयते । इति कथितं चेत्यन्वयः ॥
 
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
 
या कौलीनादसितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि बिरडे हासिनस्ते भोगा-
दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ४५ ॥