This page has been fully proofread once and needs a second look.

१६८
 
मेघसंदेशे
 
राज्ये प्रवर्तमानेऽपि रतिखेदसादवशेनेषन्निद्रां प्राप्येत्यर्थः । सत्स्वरं

रुदती अदृष्टपूर्वमदीयप्रणयापराधदर्शनप्रचण्डखण्डनोद्दण्डमन्युसंभार
-
विवशतया मुक्तकण्ठं प्ररुदितेत्यर्थः । विप्रबुद्धा व्याकुलं प्रबुद्धा,

असीत्यन्वयः । सान्तसिंर्हासं प्रबोधानन्तरमेव प्रेमकाष्ठाप्रतिष्ठितनिज-

हृदयातिशङ्कानुगुणोन्मेषेण स्वप्नदर्शनेन स्वस्याः प्रतारितत्वमवगम्य

समुल्लसितमन्दस्मितमिति कथनक्रियाविशेषणम् । असकृत् पृच्छते

त्वत्क्षोभदर्शनकम्पितहृदयतया किमिदममृतहासिनि कथय कथयेति

सशफथं पुनः पुनरनुयुञ्जानाय । चकारः प्रबोधेन कथनं समुच्चि-

नोति । कितव ञ्चक । अनेन स्वप्न इति ऋजुधियो मे प्रतिभाति ;

कितवेन त्वया तु साक्षादेव तथा समाचरितं न वेति दैवं जानातीति

तस्याः प्रणयकोपानुवृत्तिः प्रेमातिशङ्कामौग्ध्यं च ध्वन्यते । रमयन्

आलिङ्गनादिभिरुपचरन् । कामपि रमयन् दृष्ट इत्यनेन आवेगाज्झ-

टिति प्रबोधेन नायिकान्तरस्य विशेषानालोचनम्, ततश्च दृष्ट इति

दर्शनमेव कृतम्, न तु तदनन्तरभावि चरणताडनादि प्रयुक्तमि-
न्

त्
यनुतापौ ब्पो व्यज्यते । त्वं मयेति, त्वमेव मयैव स्वप्नेऽप्येवं दृश्यस

इत्यतः क्रिकिमरुंतुदं ममेति प्रतीयते । इति कथितं चेत्यन्वयः ॥
 

 
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
 

या कौलीनादसितनयने मय्यविश्वासिनी भूः ।

स्नेहानाहुः किमपि बिरडेविरहे हासिनस्ते ह्यभोगा-

दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ४५ ॥