This page has not been fully proofread.

मेघसंदेशे
 
• मीलयित्वा नयने निमील्येति लोकोक्त्यनुसार; यथा कश्चित्कातरो परे
जनः स्वाङ्गसंभूतपिटकादिच्छेददाहक्षारप्रयोगादिप्रसङ्गे तद्दर्शनमसह-
मानो गत्यन्तराभावान्नयननिमीलनेन प्रतीकारेण तद्दुःखं गमयति,
तथा त्वमपि दु:खमनालोचयन्ती विविधकार्यव्यापारितेन चेतसा
मासान् गमयेत्यर्थः । एवं कथंचिजीवने भविष्यत् फलगौरवमाह -
पश्चात् मासचतुष्टयात्ययेन शापे क्षालिते। आवां त्वमहं च । विरह-
गुणितं वियॊगेन ग्रहुमुखीकृतम्, भोगैरपूर्यमाणत्वात्, अभिमत-
विषयालाभे च वर्द्धिष्णुत्वात्तृष्णायाः । तं तमिति, प्रतिक्षणं प्रसरतां
मनोरथानामीहक्तया इयत्तया वा अनवधारणीयत्वं द्योत्यते। आत्मा-
· मिलाषम्, अभिलप्यते प्रार्थ्यते इत्यभिलाषविषयोऽत्राभिलाष
उच्यते । आत्मशब्देन च भिन्नरुचित्वान्मनसां मम कश्चिदुपभोग-
प्रकारोऽभिलषितः,
 
तव कश्चिदन्य इत्यभिव्यज्यते । निर्वेक्ष्यावः
 
उपभोक्ष्यावहे । तं तं निर्वेक्ष्याव इत्यनेन प्रत्यापन्नदिव्यमहिमसंपन्नत
या तदानीमनबद्यदिव्योद्यानसरोविहारगीतनृत्तवाद्यविद्याविशेषप्रयोग-
प्रकृष्टवारुणीरसास्वादबहुविधपरिरम्भचुम्बनादिषु संभोगप्रकारेषु म
नोरंथविषयेषु संकल्पमात्रौदयत्सिद्धिकत्वान्न प्रतिनिधिग्रहणदौर्गत्य -
रस्यमिति प्रकाश्यते । तदनुकूलं कालसौन्दर्यमाह -- परिणतशरच-
न्द्रिकासु मेघाद्यावरणविरहेण लब्धसामग्रीका शरत्प्रसन्ना ज्योत्स्ना
यासु। अनेन स्वनिवासभूतायामलकायां सदा शरदः संन्निधानात्त.
मसादितायाश्चन्द्रिकाया अप्यविच्छेदान्निष्प्रत्यूहसंभोगसंपत्त्वं सूच्यते ।
सपासु रात्रिषु । क्षपाग्रहणेन शापमोक्षादूर्ध्वं पुनरीहशव्यसनापातप
रिहाराय स्वाधिकारावधानेनैव दिवसानामतिवाहनात् भोगयोग्ये
 
नि
 
उद
 
ला
 
संदे
 
त्वा
 
भूय
 
सा
 
मपि
 
शमु
 
रादौ
 
सखी
 
भुज
 
वसा
 
रसम
 
शय
 
गत्वा
 
विष