2023-02-24 04:52:42 by manu_css
This page has been fully proofread once and needs a second look.
१६५
विष्यत्सुखसंपत्प्रकाशनेन च तात्पर्यमवस्थापयति-- शा
शापान्तः यक्षेश्वरदत्तस्य शापस्य निवृत्तिः । भुजगशयनात् अनन्ता-
ख्यनागराजरूपात् तल्पात् । शयनादुत्थित इति, स्वात्मानुसंधानरू-
पयोगनिद्रामुद्रितनयनारविन्दस्येन्दिरापतेः परमात्मनः परमार्थतः
संवेशोत्थानयोरभावेऽपि भक्तजनपूजनादिहेतोः शुद्धकालसंपादनाय
शेषशयनप्राप्तिपरिहारौ, न तु स्वापप्रबोधाविति द्योत्यते, 'असुवंतो
बि
वि पबुद्धो पुढमविबुद्धसिरिसेविओ महुमहणो' इति सेतूक्तवत् । तथा
कौ
कार्तिक्यां तयोः संपूजयेद्
गुरोरुपपादयति–शार्ङ्गपाणाविति। 'भूतादिमिन्द्रियादिं च द्विधा-
इंकारमीश्वरः । बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥' इति
श्रीविष्णुपुराणोक्तेः, तत्वदृष्टया निखिलेन्द्रियकारणभूततैजसा
शार्ङ्गधारणात्सकलेन्द्रियप्रवर्तकत्वेनापरिलुप्तदृक्स्वरूपस्य, लोकदृष्टया
दुष्टनिष्
निद्राप्रसङ्गः ; कुतस्तरां च प्रबोधशङ्केति व्यज्यते । अतश्चातीतशर-
न्कालप्रारम्भे शापस्योपलम्भ इति गम्यते; तदानीं च तत्प्राप्तिर्वर्ष-
यन्त्रितानां प्रवर्तकत्वाच्छरदस्तदारम्भेऽप्यस्य दयितादिसङ्गेन निधि-
पालनादौ स्वाधिकारे प्रमादादित्यवसेयम् । अन्यान्, गमितेभ्य
इत्यर्थात् । गमय अतिवाहय । चतुर इति, तस्याः स्थैर्यापादना
लघुत्वादकृच्छ्रयाप्यत्वं ध्वनति । विरहव्यथामूर्च्छनेन मासमेकमपि
मा
यापयितुं न कश्चिदुपायः, किमुत मासचतुष्टयमित्याशङ्ख्या