This page has not been fully proofread.

मेघसंदेशे
 
क्रमेणेत्यर्थः
 
तस्य नेमिः धारा क्रमः तदीयं संचरणम्, न्यायो वा–स चोर्ध्वगतस्व
भागस्याधोगमनमधौगतस्य च पर्यायेणोङ्कंगमनमिति; तेन तत्सदृशेन
"
1 'चक्रधारा प्रधि नेमिः' इत्यमरः । अत्र प्रकृतशृङ्गा,
ररसप्रतिकूलश्चान्तरसोद्दीपनविभावशा न कर्तव्या, लोकवृत्ता-
न्तप्रदर्शनेन प्रियतमाहृदयधैर्यापादन एव तात्पर्यात् । किंच
'न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः' इत्यत्न कालस्या-
पुनरागमप्रतिपादनात् विरुद्धरस विभावत्वमेव ; अत्र तु न तथा, सुख-
दुःखयोर्द्वयोरपि पर्यायप्रवृत्तिप्रकाशनात्; लोकवृत्तनिदर्शनेन प्रिया-
जीवितावलम्बनप्ररोचन एव विरहविधुरितस्य कामिनः प्रवृत्तेः,
दुःखमात्रप्रतिपादने च निर्वेदशङ्काया अवकाशलाभात्, परस्परप्रेमसं-
दानितयोर्विधिवशोपनीतविरहोत्तामिनोः कामिनोर्भविष्यत् क्षणिकमपि
समागमसुखमचेक्ष्य 'एति जीवन्तमानन्दो नरं वर्षशतादपि' इति
मनीषया वर्षशतानुभाब्यमपि दुःस्वं तितिक्षमाणयोर्विदेहकैवल्यनिर्वृ-
तेरपि विषयसुखेष्वेव बहुमतेः शान्तस्य स्वप्नेऽप्यसंभाव्यत्वाच्च ।
 
अर्थान्तरन्यासोऽलंकारः ॥ ४२ ॥
 
१६४
 
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
मासानन्यान्गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलापं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ४३ ॥
अथ कियदबधिरियं धैर्यस्तम्भावष्टम्भेन जीवितालम्बन विडम्बनेवि