This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
क्रमेणेत्यर्थः
 
तस्य नेमिः धारा क्रमः तदीयं संचरणम्, न्यायो वा-- स चोर्ध्वगतस्व

भागस्याधोगमनमधौधोगतस्य च पर्यायेणोङ्कंर्ध्वगमनमिति ; तेन तत्सदृशेन
"
1

क्रमेणेत्यर्थः ।
'चक्रधारा प्रधि नेमिः' इत्यमरः । अत्र प्रकृतशृङ्गा,

ररसप्रतिकूलश्चाशान्तरसोद्दीपनविभावशाप्रसड़्गशड़्का न कर्तव्या, लोकवृत्ता-

न्तप्रदर्शनेन प्रियतमाहृदयधैर्यापादन एव तात्पर्यात् । किंच

'न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः' इत्यत् कालस्या-

पुनरागमप्रतिपादनात् विरुद्धरस विभावत्वमेव ; अत्र तु न तथा, सुख-

दुःखयोर्द्वयोरपि पर्यायप्रवृत्तिप्रकाशनात्; लोकवृत्तनिदर्शनेन प्रिया-

जीवितावलम्बनप्ररोचन एव विरहविधुरितस्य कामिनः प्रवृत्तेः,

दुःखमात्रप्रतिपादने च निर्वेदशङ्काया अवकाशलाभात्, परस्परप्रेमसं-

दानितयोर्विधिवशोपनीतविरहोत्तामिनोः कामिनोर्भविष्यत् क्षणिकमपि

समागमसुखमचेवेक्ष्य 'एति जीवन्तमानन्दो नरं वर्षशतादपि' इति

मनीषया वर्षशतानुभाब्व्यमपि दुःस्वंखं तितिक्षमाणयोर्विदेहकैवल्यनिर्वृ-

तेरपि विषयसुखेष्वेव बहुमतेः शान्तस्य स्वप्नेऽप्यसंभाव्यत्वाच्च ।
 

अर्थान्तरन्यासोऽलंकारः ॥ ४२ ॥
 
१६४
 

 
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ

मासानन्यान्गमय चतुरो लोचने मीलयित्वा ।

पश्चादावां विरहगुणितं तं तमात्माभिलापं
षं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ४३ ॥

 
अथ कियदधिरियं धैर्यस्तम्भावष्टम्भेन जीवितालम्बन विडम्बनेवि
 

 
ति