2023-02-17 12:54:49 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः ।
१६३
पातान्निवारयाम्येव । तत् तस्मात्कारणात् । कल्याणि पुण्यलक्षणे
इत्यामन्त्रणेन प्रशस्तलक्षणप्रकाशितभविष्यदनवद्यसमृद्धिसंभारा भ-
बती न अतिचिरं दुःखस्य भाजनं भविष्यतीति द्योत्यते । त्वमपि त्वद-
क्षयाहमिव, मदपेक्षणेन त्वमपीत्यर्थः । सुतरां यावता जीवितव्यसन-
मापतेत्, तावदित्यर्थः । कातरत्वं दुःखानुभूतौ अधीरताम् । लोक-
वृत्तमवेक्ष्यापि त्वया धैर्यमवलम्बनीयमित्याह – कस्येति । त्रैलोक्या-
तवर्तिनः स्थिरस्य चरस्य वा कस्य भूतस्येत्यर्थः; पुरन्दरादिषु देवता-
विशेषेष्वपि वृत्रवधादौ स्वपदभ्रंशप्रत्त्यापत्त्याद्यतीतवृत्तान्तश्रवणात्,
वर्तमानेषु च तथानुभवात्, भविष्यत्सु च तथानुमानादित्यर्थः ।
अत्यन्तं निरतिशयम् । सुखम् अनुकूलविषयसाध्योऽनुभवः। उपनतं
→ाप्तम् । दुःखं प्रतिकूलविषयसाध्योऽनुभवः । एकान्ततः कालत्रि-
नयेऽप्येकरूपेणेत्यर्थः। कस्य सुखं दुःखं वा अत्यन्तम् एकान्तत
उपनतमित्यन्वयः, 'नैकान्तात्यन्ततोऽभावात् ' इतिवत् । तत्र हेतु-
-नीचैः अभिमतविषयपरिपोषणविरहादपरेण रूपेण । उपरि
द्वैषम्यादुत्कृष्टेन। चकारेण आश्रयैक्यं प्रकाश्यते । गच्छन्ति न तु
म्यन्ते आपाद्यन्त इति वा । अनेन पुराकृत विचित्रकर्मोपनेयानां
■र्सा कालवशेन स्वयमेव प्रवृत्तेः पुरुषेच्छाधीनत्वं निरस्यते ; यथाइ
=श्चित्– 'देहिनामिति विचित्रकर्मणामुच्चनीचफलभोगसाक्षिणी ।
चालकालमपद्दाय केवलं कालशक्तिरिह केन लङ्घयते ॥' इति, 'वासरं
सतेयींच पाराधीन्येन पश्यतः । सुस्थान्याभ्यामवस्थाभ्यां स्वस्थाभ्यां
मदेतरौ ॥' इति च । दशाः अवस्थाः । बहुवचनेन देशकालाद्यु-
धिभेदात् बाहुविध्यमवबेोध्यते । चक्रनेमिक्रमेण चक्रं रथचरणं