This page has not been fully proofread.

१६२
 
मेघसंदेशे
 
प्राप्तु-
गशरशरपतनकदनतरलतरनयनयुगलीं पुरोवर्तिनीमिव भ॑वर्ती पश्यत-
स्तस्य मे कथं वा ब्यथा मा भूदिति द्योत्यते । दुर्लभप्रार्थनं
मशक्ये वस्तुन्याशंसाः यस्य। गाढोष्णाभिः अन्तर्दृदसंतापाभिः ।
कृतं न तु क्रियते । अनेन तथात्वं तस्य पूर्वमेव निर्वृत्तमिति व्यज्यते।
ततश्च प्रतीकाराभाबाजीवित एवाशंसा दूरोत्सारितेति ध्वन्यते ।
स्मशरणं अपगतरक्षकम्, त्वत्समागमस्यैव शरणत्वात्तस्य च विल-
ग्बनादित्यर्थः । त्वद्वियोगव्यथाभिः त्वद्विरहहेतुकैर्वेदनानुभवैः । बहु-
बचनेन प्रकारबाहुल्यं ध्वन्यते । अत्र विरोधोऽलंकारः ॥ ४१ ॥
न त्वात्मानं बहु विगणयन्नात्मना नावलम्बे
तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छन्त्युपरि च दशाश्चक्रनेमिक्रमेण ॥ ४२ ॥
 
अथैवं त्वद्विरद्दव्यथाक्षुभितं निधनोन्मुखमपि जीवितं त्वत्समाग-
मप्रत्याशाभेषजेनाइं परिरक्षामि;
 
तस्मात्त्वमपि मत्प्राणत्राणकारणात्
कुसुमसुकुमारं स्वजीवितं कथंचिद्वारयेति समाश्वासयति — न त्वा
त्मानमित्यादि । तुशब्दो विशेषे ; अतिदुःखितस्य प्राणत्यागे योग्ये-
ऽपीत्यर्थः । आत्मानं जीवं देहं वा ।
 
6
 
'आत्मा जीवे धृतौ देहे '
इति बैजयन्ती । बहु विगणयन् त्वया सहोपरि परिभोक्ष्यमाणमनेक-
मंभिलाषविषयं विचिन्तयन्निति हेतुः । आत्मना धृत्या; अथ वा,
भैयाँदलभ्चिना रवैनैव, समाश्वासयित्रन्तराभाबात् । न नावलम्बे नि-
+
 
G