2023-02-17 12:54:49 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः ।
संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा
सर्वावस्धास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतबटुलनयने दुर्लभप्रार्थनं मे
गाढोष्णाभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥
१६९
अथैवं प्रतिहतसकलसमागमोपायो मन्मथशरमथितचेतस्त्रया
शक्याशक्यविवेकशून्यां स्वां दशामाह - संक्षिप्येतेति । संक्षिप्येत
ह्रासं गच्छेत् । क्षणो नाडिकायाः षष्ठो भागः । क्षण इव तु
याम इव । अनेन मेरोः सर्षपत्वप्रार्थनवदतिविलक्षणवस्तुविषयत्वं
मनोरथस्य ध्वन्यते । कथं केन प्रकारेण कस्योपायस्यानुष्ठानादि-
त्यर्थ: । दीर्घयामा निर्विनोदतया निद्राविच्छेदाञ्च दीर्घीभूता इवा-
नपगच्छन्तो यामा यस्याः । दीर्घयामा, न तु दीर्घेत्यनेन अवयविन्या
यामिन्या एव न केवलम्, अपि तु तदवयवानां यामानामपि न विर-
तिरिति द्योत्यते; त्रियामेति सोत्प्रासं वचनम्; परःशतयामामिमां
यामिनीं त्रियामेति कथं कथयन्तीति भावः । सर्वावस्थासु ग्रीष्मे
शरदि मध्याह्ने च । अहः दिनम् । अपिः समुच्चये । मन्दमन्दातपं
निरूष्मतया भृशापटुभूतरविकरोद्योतम्, अन्यथा शीतलतरत्वादा-
' प्रकारे गुणवचनस्य
लिङ्गनसुखानुस्मारणेन यातनावहत्वात् ।
इति द्विवेचनम् । अत्र त्रियामायाः स्वत एव विरद्दिजनसंतापक-
रत्वात्संक्षेपस्यैव प्रार्थना; अह्नस्तु विविधव्यापार विनोदशांलितया तीव्रा-
तपत्व एव बाधकत्वान्मन्दमन्दातपत्वाशंसनमेवेति मन्तव्यम् । इत्थम्
अनेन प्रकारेण । चटुलनयन इति, माद्वैरहवेदनाविहतधृतिम् अयु-
M 11
▸