This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा

सर्वावस्धाथास्वहरपि कथं मन्दमन्दातपं स्यात् ।

इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
 

गाढोष्णाभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥
 
१६९
 

 
अथैवं प्रतिहतसकलसमागमोपायो मन्मथशरमथितचेतस्त्रया
तया
शक्याशक्यविवेकशून्यां स्वां दशामाह -- संक्षिप्येतेति । संक्षिप्येत

ह्रासं गच्छेत् । क्षणो नाडिकायाः षष्ठो भागः । क्षण इव तु

याम इव । अनेन मेरोः सर्षपत्वप्रार्थनवदतिविलक्षणवस्तुविषयत्वं

मनोरथस्य ध्वन्यते । कथं केन प्रकारेण, कस्योपायस्यानुष्ठानादि-

त्यर्थ: । दीर्घयामा निर्विनोदतया निद्राविच्छेदाञ्च्च दीर्घीभूता इवा-

नपगच्छन्तो यामा यस्याः । दीर्घयामा, न तु दीर्घेत्यनेन अवयविन्या

यामिन्या एव न केवलम्, अपि तु तदवयवानां यामानामपि न विर-

तिरिति द्योत्यते ; त्रियामेति सोत्प्रासं वचनम् ; परःशतयामामिमां

यामिनीं त्रियामेति कथं कथयन्तीति भावः । सर्वावस्थासु ग्रीष्मे

शरदि मध्याह्ने च । अहः दिनम् । अपिः समुच्चये । मन्दमन्दातपं

निरूष्मतया भृशापटुभूतरविकरोद्योतम्, अन्यथा शीतलतरत्वादा-
' प्रकारे गुणवचनस्य

लिङ्गनसुखानुस्मारणेन यातनावहत्वात् ।
'प्रकारे गुणवचनस्य'
इति द्विवेर्वचनम् । अत्र त्रियामायाः स्वत एव विरद्दिहिजनसंतापक-

रत्वात्संक्षेपस्यैव प्रार्थना ; अह्नस्तु विविधव्यापार विनोदशांशालितया तीव्रा-

तपत्व एव बाधकत्वान्मन्दमन्दातपत्वाशंसनमेवेति मन्तव्यम् । इत्थम्

अनेन प्रकारेण । चटुलनयन इति, माद्वैविरहवेदनाविहतधृतिम् अयु-
M 11