This page has been fully proofread once and needs a second look.


तदुक्तादपि व्याख्येयग्रन्थस्य स्वरसवाहि पुष्टं च परिपूर्णे च
व्याख्यानम् । किं च नास्ति तादृशमेकमपि काव्यं मल्लिनाथेन
व्याख्यातम्, यन्मल्लिनाथात्प्राक्पञ्चधैर्वापि व्याख्यातृभिर्न व्याख्यायि ।
स्वोपज्ञं किल व्याख्यानमसाधारणीमापादयिष्यति व्याख्यातुः समा-
ख़्याम् । सुलभश्च सुकरश्च खलु जगति परप्रहतया पदव्या कस्यचि
द्गमनानुसारः, तमेव पन्थानं तत्र तत्र परिष्कृत्य तेनैव सुखसंचारो
वा। बहुषु व्याख्यानग्रन्थेषु विशीर्णान्यर्थजातान्येकत्र संकलय्य
प्रदर्शनम्, काव्यव्याख्यानप्रवृत्तेषु ब्राह्मणेष्वस्य महोपाध्यायस्य
प्राथमिकत्वं वा, यत्सत्यमस्या अनन्यसामान्याया विख्यातेः स्यात्का-
रणमित्यूहस्प तु, विश्वसिमः, बलवानेव मूलबन्धोऽस्तीति ।
 
सति चैवमविमृश्यवादिनि पक्षपातिनि प्रायेण पण्डितलोके,
कथंकारमस्मदीयं वचनमधिरोहतु श्रद्धापदवीम्, यन्मेघसंदेशस्य
मल्लिनाथव्याख्यानातिशायि सर्वाङ्गसुन्दरमस्ति किंचित्प्राचीनं व्या
ख्यानमित्यभिदध्मः । 'माघे मेघे गतं वयः' इति मल्लिनाथेनैव
कथितमिति हि सर्वतोऽपि प्रसरति कापि बहोश्चिरात्किंवदन्ती ।
अथ वा, सन्ति सांप्रतमपि सरसहृदया: कतिपये भावुका इति,
ते च तारतम्यपर्यालोचनेन सारासारपरिशीलनेन च ज्ञास्यन्ति वस्तु-
तत्त्वमिति च विश्वसन्तो वयं निर्भयं निःसंकोचं च वदामः, यदस्ति
मेघसंदेशस्य पूर्णसरस्वतीनाम्ना महामतिना विरचिता विद्युल्लताख्या
कापि व्याख्या; सा च विद्योतते विश्वातिशायिनीति ।
 
अस्यां खलु व्याख्यायां मौलानां सर्वेषामपि पदानां सुप्रसिद्धानि