This page has been fully proofread once and needs a second look.

(९).
 

तदुक्तादपि व्याख्येयग्रन्थस्य स्वरसवाहि पुष्टं च परिपूर्
णे च
व्याख्यानम् । किं च नास्ति तादृशमेकमपि काव्यं मल्लिनाथेन

व्याख्यातम्, यन्मल्लिनाथात्प्राक्पञ्चषैधैर्वापि व्याख्यातृभिर्न व्याख्यायि ।

स्वोपज्ञं किल व्याख्यानमसाधारणीमापादयिष्यति व्याख्यातुः समा-

ख़्याम् । मुसुलभश्च सुकरश्च खलु जगति परप्रहतया पदव्या कस्यचि

द्भर्मनानुसारः, तमेव पन्थानं तत्र तत्र परिष्कृत्य तेनैव सुखसंचारो
बा

वा
। बहुषु व्याख्यानग्रन्थेषु विशीर्णान्यर्थजातान्येकत्र संकल
य्य
प्रदर्शनम्, काव्यव्याख्यानप्रवृत्तेषु ब्राह्मणेष्वस्य महोपाध्यायस्य

प्राथमिकत्वं वा, यत्सत्यमस्या अनन्यसामान्याया विख्यातेः स्यात्का
-
रणमित्यूहस्प तु, विश्वसिम, चमः, बलवानेव मूलकषोबन्धोऽस्तीति ।
 

 
सति चैवमत्रिविमृश्यवादिनि पक्षपातिनि प्रायेण पण्डितलोके,

कथंकारमस्मदीयं वचनमधिरोहतु श्रद्धापदवीम्, यन्मेघसंदेशस्य

मल्लिनाथव्याख्यानातिशायि सर्वाङ्गसुन्दरमस्ति किंचित्प्राचीनं व्या

ख्यानमित्यभिदध्मः । 'माघे मेघे गतं वयः' इति मल्लिनाथेनैव

कथितमिति हि सर्वतोऽपि प्रसरति कापि बहोभियश्चिरात्किंवदन्ती ।

वा, सन्ति सांप्रतमपि सरसहृदया: रसहृदया: कतिपये माभावुका इति,

ते च तारतम्यपर्यालोचनेन सारासारपरिशीलनेन च शाज्ञास्यन्ति वस्तु-

तत्त्वमिति चं विश्वसन्तो वयं निर्भयं निःसंकोचं च दामः, यदस्ति

मेघसंदेशस्य पूर्णसरस्वतीनाम्ना महामतिना विरचिता विद्युल्लताख्या

कापि व्याख्या ; सा च विद्योतते विश्वातिशायिनीति ।
 

 
अस्यां खलु ब्व्याख्यायां मौलानां सर्वेषामपि पदानां सुप्रसिद्धानि