2023-02-17 12:54:28 by ambuda-bot
This page has not been fully proofread.
(९).
तदुक्तादपि व्याख्येयग्रन्थस्य स्वरसवाहि पुष्टं च परिपूर्ण
व्याख्यानम् । किं च नास्ति तादृशमेकमपि काव्यं मल्लिनाथेन
व्याख्यातम्, यन्मल्लिनाथात्प्राक्पञ्चषैर्वापि व्याख्यातृभिर्न व्याख्यायि ।
स्वोपज्ञं किल व्याख्यानमसाधारणीमापादयिष्यति व्याख्यातुः समा-
ख़्याम् । मुलभश्च सुकरश्च खलु जगति परप्रहतया पदव्या कस्यचि
द्भर्मनानुसारः, तमेव पन्थानं तत्र तत्र परिष्कृत्य तेनैव सुखसंचारो
बा। बहुषु व्याख्यानग्रन्थेषु विशीर्णान्यर्थजातान्येकत्र संकल
प्रदर्शनम्, काव्यव्याख्यानप्रवृत्तेषु ब्राह्मणेष्वस्य महोपाध्यायस्य
प्राथमिकत्वं वा, यत्सत्यमस्या अनन्यसामान्याया विख्यातेः स्यात्का
रणमित्यूहस्प तु, विश्वसिम, चलवानेव मूलकषोऽस्तीति ।
सति चैवमत्रिमृश्यवादिनि पक्षपातिनि प्रायेण पण्डितलोके,
कथंकारमस्मदीयं वचनमधिरोहतु श्रद्धापदवीम्, यन्मेघसंदेशस्य
मल्लिनाथव्याख्यानातिशायि सर्वाङ्गसुन्दरमस्ति किंचित्प्राचीनं व्या
ख्यानमित्यभिदध्मः । 'माघे मेघे गतं वयः' इति मल्लिनाथेनैव
कथितमिति हि सर्वतोऽपि प्रसरति कापि बहोभियकिंवदन्ती ।
अय वा, सन्ति सांप्रतमपि करसहृदया: कतिपये मावुका इति,
ते च तारतम्यपर्यालोचनेन सारासारपरिशीलनेन च शास्यन्ति वस्तु-
तत्त्वमिति चं विश्वसन्तो वयं निर्भयं निःसंकोचं च बदामः, यदस्ति
मेघसंदेशस्य पूर्णसरस्वतीनाम्ना महामतिना विरचिता विद्युलताख्या
कापि व्याख्या ; सा च विद्योतते विश्वातिशायिनीति ।
अस्यां खलु ब्याख्यायां मौलानां सर्वेषामपि पदानां सुप्रसिद्धानि