This page has not been fully proofread.

मेघसंदेशे
 
उपसंख्यानम्' इति तृतीया । समेन धावति, विधमेण धावतीति-
वत् विशेष्याप्रयोगः। आलिङ्गयन्ते प्रसारितबाहुयुगलं परिरभ्यन्ते,
न पुनरालिङ्गिता इत्यनेन प्रतिसमागमं तेषां तथाचरणं ध्वन्यते।
गुणवति विशिष्टस्पर्शादिगुणशालिनि । अनेन येन केनाप्युपायेन तदी-
यस्पर्शसुखानुभवे चेतसि स्फीततृष्णता द्योत्यते। तुषाराद्रिवाता इति,
गिरिराजत्य हिमशीतलतया तदीयत्वाद्वातानां शैत्यमपि सूचितम् ।
पूर्वस्पृष्टं दिमबदुपगमात्प्राक् स्पृष्टम्, कैलासस्य हिमबदुत्तरभागवर्ति-
त्वात्तदधिवासाच्च तेबत्यर्थः । यदि किलेति अपरमार्थसंभावनाया-
मव्ययम् । मम तावदभिनिवेशादेवं मनीषा; वस्तुतस्तु तथा न
वेति देबो जानातीत्यर्थः । भवेत् संभावनायां लिङ् । अङ्गं शरीरम्,
अथ वा, करचरणादिष्वेकम्; तावतापि मम चरितार्थत्वादिति
भावः । एभिः बातैः । यो य आयाति, स स आलिङ्गयते केन-
चित्कदाचित्कयचित्कथंचित्तवाङ्गस्य स्पर्शशङ्कयेति बहुवचनेन द्यो-
त्यते । इति एवं निरूपणाद्वैतोः । अयं च श्रीरामायणश्लोकच्छाया-
मामपि
पृष्ट्वा
योनिः श्लोकः; यथा— 'बाहि बात यतः कान्ता तां
स्पृश त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः' इति । अत्र च
श्यामास्ववमित्यादिभिश्चतुर्भिः श्लोकैः 'बियोगे चायोगे प्रियजन-
सदृचानुभवनं ततश्चित्रालोकः स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टाना-
मुपगतवतां स्पर्शनमिति प्रतीकारः कामव्यथितमनसां कोऽपि गदितः'
इति गुणपताकोक्तमनुसंहितं बेदितव्यम् । अत्राप्रस्तुतप्रशंसालंकारः,
स्वदेहसंतापनिर्वापकप्रियतमास्पर्शामृततर्षातिशयस्य कारणस्य पवना-
लेषरूपकार्यमुखेन प्रतिपादनात् ॥ ४० ॥