This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
उपसंख्यानम्' इति तृतीया । समेन धावति, विमेण धावतीति-

वत् विशेष्याप्रयोगः। आलिङ्गयन्ते प्रसारितबाहुयुगलं परिरभ्यन्ते,

न पुनरालिङ्गिता इत्यनेन प्रतिसमागमं तेषां तथाचरणं ध्वन्यते।

गुणवति विशिष्टस्पर्शादिगुणशालिनि । अनेन येन केनाप्युपायेन तदी-

यस्पर्शसुखानुभवे चेतसि स्फीततृष्णता द्योत्यते। तुषाराद्रिवाता इति,

गिरिराजत्स्य हिमशीतलतया तदीयत्वाद्वातानां शैत्यमपि सूचितम् ।

पूर्वस्पृष्टं दिमबहिमवदुपगमात्प्राक् स्पृष्टम्, कैलासस्य हिमदुत्तरभागवर्ति-

त्वात्तदधिवासाच्च तेत्यर्थः । यदि किलेति अपरमार्थसंभावनाया-

मव्ययम् । मम तावदभिनिवेशादेवं मनीषा ; वस्तुतस्तु तथा न

वेति देबोवो जानातीत्यर्थः । भवेत् संभावनायां लिङ् । अङ्गं शरीरम्,

अथ वा, करचरणादिष्वेकम्; तावतापि मम चरितार्थत्वादिति

भावः । एभिः बावातैः । यो य आयाति, स स आलिङ्ग्यते केन-

चित्कदाचित्कस्यचित्कथंचित्तवाङ्गस्य स्पर्शशङ्कयेति बहुवचनेन द्यो-

त्यते । इति एवं निरूपणाद्वैहेतोः । अयं च श्रीरामायणश्लोकच्छाया-
मामपि

योनिः श्लोकः ; यथा-- 'वाहि वात यतः कान्ता तां स्
पृष्ट्वा
योनिः श्लोकः; यथा— 'बाहि बात यतः कान्ता तां
मामपि
स्पृश त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः' इति । अत्र च

श्यामास्वड़्गमित्यादिभिश्चतुर्भिः श्लोकैः 'बिवियोगे चायोगे प्रियजन-

सदृचाक्षानुभवनं ततश्चित्रालोकः स्वप्नसमये दर्शनमपि । तदङ्गस्पृष्टाना-

मुपगतवतां स्पर्शनमिति प्रतीकारः कामव्यथितमनसां कोऽपि गदितः'

इति गुणपताकोक्तमनुसंहितं बेवेदितव्यम् । अत्राप्रस्तुतप्रशंसालंकारः,

स्वदेहसंतापनिर्वापकप्रियतमास्पर्शामृततर्षातिशयस्य कारणस्य पवना-

श्
लेषरूपकार्यमुखेन प्रतिपादनात् ॥ ४० ॥