This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः । जिवाम १५९
 
निरन्तरस्थितेरश्रुलेशानां तेष्वेव पतनस्यावश्यंभावात् । अश्रुलेशाः

नयनजलबिन्दवः । किसलयेष्वश्रुलेशाः पतन्तीत्यनेन कोमलारुणेषु

पल्लवेषु स्थूलधवलवर्तुलानाम् अश्रुबिन्दूनामवश्यायशीकराणामिव

परभागलाभात् चटचटध्वनिप्रादुर्भावाच्च स्फुटदृश्यत्वम् । खल्विति

प्रसिद्धौ, सर्वजनविदितोऽयमर्थ इत्यर्थः । अत्र च करुणरसो

ध्वन्यते । लब्धाया अप्याश्लेषानुपलब्धैर्विशेषोक्तिरलंकारः ॥ ३९ ॥

 
भित्त्वा सद्यः किसलय पुटं देवदारुद्रुमाणां
 

ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।

आलिड़्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः

पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥
 

 
अथ तदङ्गस्पर्शसुखलोभेन तदुपलब्ध्युपायमनुष्ठीयमानमाह-
-
भित्त्वा सद्य इत्यादि । भित्त्वा स्वसंघट्टनेन विदलितमुखं कृत्वा ।

सद्यः अनन्तरमेव । सद्य इत्यनेन अयातयामत्वात् स्पर्शस्य अनन्त-

रितत्वं ग्रोद्योत्यते । सद्यः प्रवृत्ता इत्यन्वयः । किसलयपुटं बाल्या-

दस्फुटितमुखं पल्लवाङ्कुरम्। अतो मान्द्यमुक्तम्, 'भिन्नशिखण्डि-

ईः र्हः' इातेइतिवत् । देवदारुरिति कोविदार इतिवत्संज्ञा ; अतो दारुश-

ब्देन द्रुमशब्दस्यापौनरुक्त्यम्, 'स देवदारुद्रुमवेदिकायाम्' इति-

वत् । तत्क्षीरस्रुतिसुरभयः मदभरचण्डवेगवेतण्डगण्डपिण्डकण्डूयना-

दिखण्डितत्वचां तेषां नवीनरसनिष्यन्दैः सुगन्धयः । एतच्च तुषाराद्रि-
चा

वा
तत्वे प्रमाणम् । दक्षिणेनेति । मार्गेणेति शेषः । 'प्रकृत्यादिभ्य
 
-
 
UITA TOMOMOLO