This page has not been fully proofread.

१५८
 
मेघसंदेशे
 
"
 
तां
 
मां य एवं प्रतिद्दतोपायान्तरस्त्वदालिङ्गनतृषितः तं माम् । आंका-
शर्माणिद्दितभुजम् अलक्षमेव गगने प्रमोदसरभसप्रसारितग्राहुयुगम्,
क नीलकण्ठ मजसीत्यलक्षवागसत्य कण्ठार्पित बाहुबन्धना' इतिवत् ।
अतश्च लब्धायाः आश्लेषोद्योगे निद्राभङ्गादपूर्णमनोरथस्यैव प्रबोधः
प्रकाश्यते; अन्यथा लक्षशून्यत्योक्त्यनुपपत्तेः । निर्दयाश्लेषद्देतोः
स्मरशरसंञ्चरितमदङ्गनिर्वापणसुधायमानदृढतरालिङ्गन निमित्तम् । ल-
ब्धायाः प्रमादप्रभ्रंशिताया इव रत्नमालायाः पुनरुपलब्धायाः । ते
मयेति, बिरद्दपरितप्तयोरावयोः परस्परसमागमे या निर्वृतिः,
भगवानपणीजानिरेव जानातीति द्योत्यते । कथमपीति, नयनजल-
द्रवोद्रेकविद्राचितनिद्रामुद्रतया स्वप्नदर्शनस्यापि कादाचित्कत्वम्,
झटिति बिनश्वरत्वं च ध्वन्यते । स्वप्नसंदर्शनेषु स्वप्नावस्थोपपादितेषु
सभ्यग्दर्शनेषु । सम्यगिति, सादृश्यस्यापूर्णत्वात्, आलेख्यदर्शनस्य
विद्दतत्वाच्च, स्वप्नै तु न तथा, दर्शनसुखं तावत्समग्रमुपलभ्यत इति
सातत्यवासि
व्यज्यते । बहुबच्चनेन विषयान्तरचिन्ताभावान्मनसः,
तायाः स्वप्नोन्मेषप्रमोपयोस्तरित इव तस्याः क्षणे क्षणे दृष्टत्वं नष्टत्वं
न्त्र, ततश्च स्वस्य वारं वारं व्याकुलत्वम्, तेन च द्रष्टॄणामतिकरुणार्द्र-
ताजनकत्वं च द्योत्यते । बहुश इत्यनेनाप्ययमर्थः समर्थ्यते । पश्य-
न्तीनां न तु दृष्टबतीनाम् । अनेन दर्शनस्य नैरन्तयें प्रकाश्यते । स्थ-
लीदेवतानां गिरिवनस्थस्य भिमानिनीनां देवतानाम् । मुक्तास्थूलाः क-
रुणरसविलीनहृदयतया झटित्यवशमेव विगलनात् स्थूलाः पृथवः
मुक्ताफलबत्स्थूला इत्यनेन साहचर्याद्भवलत्वं वृत्तत्वं च लभ्यते ।
तरुकिसलयेष्विति। तासां तरुशिखरेष्ववस्थानात् किसलयानां च
 
रवि सूर्य