2023-02-17 12:54:48 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः ।
१५७
सद्य इति वा। उपचितैः अनुवन्धेन प्रवृत्तैः । दृष्टिः चक्षुः । दृष्टि-
शब्देन प्रतिपादनं दर्शनसौक्ष्म्यस्यैव चित्रकर्मणि प्राधान्यं द्योत-
यितुम् । आलिप्यते परिदिह्यते इत्यनेन यथा सुधादिद्रव्योपलि
प्तत्वे भित्त्यादेरत्यन्तान्तरितत्वम्, तथा दृष्टेरंप्यश्रुजलोपलेपलुप्तशक्ति-
त्वात् कथं तत्र प्रवृत्तिरिति सूच्यते । मे योऽहमनुंचिन्तितपूर्ववृत्ता
न्ततान्तमनाः, तस्य मे इत्यर्थः । क्रूरः निरपराधबाधकः क्वचि.
त्कदाचिदप्यनुपजातकरुणाकणश्चेत्यनेन साक्षात्संगमं तावन्न सहतां
नाम, येन केनाप्युपायेन क्रियमाणं स्मरशरमथितचेतसौः संगमाभासं
जनंगमोऽपि सन् क इव न सहते हतविधिमन्तरेणेति दैवविषयो
मन्युः प्रकाश्यते । तस्मिन्नपि अमुख्ये आलेख्यरूपेऽपि । संगमं
संश्लेषम् । नौ आवयोः । कृतान्तः कृतः निर्मितो विशेषेण सर्व-
स्याप्यन्तो नाशो येन सः । अथ वा कृतस्य स्वसृष्टस्य प्रपञ्चस्य
प्रतिसंहर्ता परमेश्वर इत्यनेन निष्प्रतिकारत्वं ध्वन्यते । अत्र तुल्य-
योगितालंकारः ॥ ३८ ॥
मामाकाशमणिहितभुजं निर्दयाश्लेषहेतो-
र्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेप्वथुलेश: पतन्ति ॥
अथ तस्मिन्नप्युपाये विहते त्वदुपलम्भायैक एव योगोऽवशिष्टः ;
तत्राप्यपूर्णमन।रथतयातिकरुणं वर्तत इत्याह -- मामाकाशेत्यादि ।
-