This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१५७
 
सद्य इति वा। उपचितैः अनुन्धेन प्रवृत्तैः । दृष्टिः चक्षुः । दृष्टि-

शब्देन प्रतिपादनं दर्शनसौक्ष्म्यस्यैव चित्रकर्मणि प्राधान्यं द्योत-

यितुम् । आलिप्यते परिदिह्यते इत्यनेन यथा सुधादिद्रव्योपलि

प्तत्वे भित्त्यादेरत्यन्तान्तरितत्वम्, तथा दृष्टेरंप्यश्रुजलोपलेपलुप्तशक्ति-

त्वात् कथं तत्र प्रवृत्तिरिति सूच्यते । मे योऽहमनुंनुचिन्तितपूर्ववृत्ता
-
न्ततान्तमनाः, तस्य मे इत्यर्थः । क्रूरः निरपराधबाधकः क्वचि.
-
त्कदाचिदप्यनुपजातकरुणाकणश्चेत्यनेन साक्षात्संगमं तावन्न सहतां

नाम, येन केनाप्युपायेन क्रियमाणं स्मरशरमथितचेतसौःसोः संगमाभासं

जनंगमोऽपि सन् क इव न सहते हतविधिमन्तरेणेति दैवविषयो

मन्युः प्रकाश्यते । तस्मिन्नपि अमुख्ये आलेख्यरूपेऽपि । संगमं

संश्लेषम् । नौ आवयोः । कृतान्तः कृतः निर्मितो विशेषेण सर्व-

स्याप्यन्तो नाशो येन सः । अथ वा कृतस्य स्वसृष्टस्य प्रपञ्चस्य

प्रतिसंहर्ता परमेश्वर इत्यनेन निष्प्रतिकारत्वं ध्वन्यते । अत्र तुल्य-

योगितालंकारः ॥ ३८ ॥
 

 
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-

र्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।

पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां

मुक्तास्थूलास्तरुकिसलयेप्वथुष्वश्रुलेश:शाः पतन्ति ॥
 

 
अथ तस्मिन्नप्युपाये विहते त्वदुपलम्भायैक एव योगोऽवशिष्टः ;

तत्राप्यपूर्णमन।नोरथतयातिकरुणं वर्तत इत्याह -- मामाकाशेत्यादि ।
 
-