2023-02-23 18:39:43 by manu_css
This page has been fully proofread once and needs a second look.
१५५
लावण्यान्तर्वर्ति
मधुमदादिष्वनुभूतान् भ्रूलताविभ्रमान् ।
हर्षविषादयोः' इति वैजयन्ती ।
तिकूलाचरणनिर्बन्ध इति भावः । एकस्थम् एकस्मिन्नेव वस्तुनि
समग्रतया स्थितम् । क्वचिदपि वनेषु गिरिषु गगने सलिले अन्यत्र
वा कुत्रचिद्देशे। ते इत्यङ्गादिष्वपि प्रत्येकमनुषज्यते । चण्डि
कोपने । अनेन एकस्मिन् वस्त्वन्तरे समग्रत्वत्सादृश्यदर्शनमस
नया त्वया तत् बहुषु विभज्य निवेशितमिति मयोत्प्रेक्ष्यत इति
द्योत्यते । अथ वा, विभक्तस्यापि तस्य निरीक्षणं त्वया मत्प्राणस्वा-
मिन्या प्रणयप्रभावान्न क्षम्यते ; तथापि किं करोमि ; सहस्व हंस-
गामिनि कालविनोदनाय क्रियमाणं तदिति व्यज्यते । सादृश्यं
साम्यम् । नास्ति न तु न दृश्यत इत्यनेन सादृश्यस्य सतो न केव-
लमदर्शनम्, अपि तु तत्सत्तैव न भवति, समग्रस्य सौन्दर्यकोशस्य
त्वय्
न्यस्य गुणाधिक्यप्रतीतेर्व्यतिरेकालंकारध्वनिः । अत्र स्मरणमलंकारः ॥
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
आस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे
ऋ
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ३८ ॥
अथैकस्थत्वत्सादृश्यसाम