This page has been fully proofread once and needs a second look.

१५४
 
मेघसंदेशे
 
शापोपद्दतत्वात् । अतः सादृश्यरूपेण तदर्थे यत्ने, तदपि मम मन्द-

भाग्यस्य न समग्रं सिद्धयतीत्याह-- श्यामास्वित्यादि । श्यामासु

फलिनीलतासु, न तु श्यामायाम्। अनेन देशकालदशाविशेषवशात्तासां

वैविध्येन प्रयत्नतोऽन्विष्य कस्यांचिद्वर्णकान्तिम्, अन्यस्यां कोमल-

त्वम्, अपरस्यां तनुत्वमित्यादि द्योत्यते । श्यामालतानां श्यामलको-
मलत्वां

मलत्वा
दिगुणयोगात्तदुपादानम्, 'कुवलयदलश्यामा श्यामालता प्रवि-

जृम्भते' इत्युक्तत्वात् । अङ्गं शरीरम्, करचरणादिकं वा । चकि-
तद्द

तह
रिणीप्रेक्षणे त्रस्तानां मृगीणां नेत्रव्यापारेषु, न तु मृगीजातिमात्रस्य ।

अनेन सिद्दसिंहबृंहितादिसद्भावैवे चकितत्वस्योपपत्तेः, तस्य च कादाचि-

त्कत्वात् कृच्छ्रलभ्यत्वं द्योत्यते । दृष्टिपातं नयनप्रेरणम् । वक्त्रच्छायां

मुखशौशोभाम्। शशिनीति, चन्द्रमस: पूर्णत्व एव मुखसादृश्यलाभादस्थि-

रत्वम्, तदानीं च स्फुटविकटकलङ्कपङ्काङ्कतया तत्सामम्ग्र्यविरहो ध्वन्य-

ते। शिखिनां न पुनः शिखिनः । तेन तेषामपि प्रावृषि प्रभूतमदानामरो-

गाणां बहूनां मध्ये केषांचिदेव शबराद्यनुल्टुलुञ्छितेषु पिञ्छकलापेषु केषु-

चिद्नतरायतस्निग्धनीलमृदुलेष्वेव साम्यसिद्धेस्तथात्वस्य दुःखोपल-

भ्यत्वं प्रकाश्यते । बर्हभारेषु शिखण्डनिचयेषु । केशान् न तु केशभा
-
रम्, शिरोरुहमात्रस्यैव स्मारकत्वात्, चतुरकृतन्धस्य केशभारस्य
ईदृशमिद-

तुल्यतायामपर्याप्तेः । उत्पश्यामि उत्प्रेक्षे । ईदृशमिदम्,
ईदृशमिद-
मिति मनसा तर्कयामि। प्रतनुष्विति, मृदुपनशकुनिशफराद्यास्फालन

एव तनुतराणां तरङ्गाणामुदयात्तेषामध्यसुलभत्वम्, अन्येषां च

तादृशसादृश्यचाबाह्यत्वं प्रतीयते । नदीवीचिषु सरित्तरङ्गेषु न तु सरो-
बी

वी
चिषु । प्रसन्नशीतलेषु अविच्छिन्नेषु जलप्रवाहेष्वेव त्वदीयं लावण्य-