This page has been fully proofread once and needs a second look.

१५३
 
द्वितीयाश्वासः ।
 
याम् ; मयापि सख्युः
संलापेष्वधिगतम्, न त्वनुभूतमिति भावः ।

'वार्तासंभाव्ययोः किल' इति वैजयन्ती । सखीनां पुरस्तादिति,

निर्यन्त्रणमुखस्पर्शानौचित्यहेतुः । कर्णे कथयितुम् । लोल: तृष्णा-

तरलः । लोल इत्यनेन चपलोऽयमिति तासां बुद्धयुन्मेषमप्यनवेक्ष्येति

ध्वन्यते । अभूदिति, अहो तत् पुरावृत्तत्वेनेदानीं कथाशेषं वर्तत

इति द्योत्यते । आननस्पर्शलोभात् क्षणमात्रं स्पर्शनाभावं सोढुंढुमधी-

रतया। सः तादृशानुरागनिगलितः । अतिक्रान्तः अतिलङ्घितवान् ।

श्रवणविषयं कर्णाभ्यां वृत्तान्ताकर्णनगोचरमपि, अतिदूरवर्तित्वात् ।

लोचनाभ्यामदृष्टः तथात्वे नयनाभ्यां दर्शनस्य का वार्तापि । त्वां
 

तादृशीं भवतीम् । उत्कण्ठाविरचितपदम् औत्सुक्येन विविधग्रथित-
26
 

शब्दम् । मन्मुखेन मद्रूपेण स्वेन मुखेन, मम तस्य चाभेदात् ; अथ

वा मदीयेन मुखेन । इदं वक्ष्यमाणं वचनम् । आ ब्रूते । अत्र

विरूपसंघटनात्मकं विषमं विरोधो वालंकारः ॥ ३६ ॥

 
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
 

वक्रच्छायां शशिनि शिखिनां वर्धबर्हभारेषु केशान् ।

उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा-

न्
हन्तैकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ।
 

 
अथ प्रतिज्ञातं संदेशमारभते ; तत्र प्रथमं तावददर्शनजनिततर्षो-

त्कर्षस्य मे त्वदीयं दर्शनमपेक्षितम्, आश्लेषादीनां पश्चाद्भावित्वात्,

'अदर्शने दर्शनमात्रकामा' इत्युक्तवत् । तच्च साक्षान्न लभ्यते,
 
."