This page has not been fully proofread.

मेघसंदेशे
 
मीति तद्भावभावनोपपादितायास्तवेत्यर्थः । विशति तृष्णातिशयेनैक्य-
मभिलपन्ननुप्रविशति। विधिना देबेनेति, तस्यालद्ध्यत्वं प्रकाशयति ।
बैरिणा अकारणद्वेषदारुणेनेति, निष्कारुण्ये तस्मिन्नसूया व्यज्यते ।
रुद्धमार्गः निवारितत्वदुपगमनमार्गः; शापार्गलयेति शेषः । अतो
गत्यन्तराभावात्संकल्पैरेव त्वदङ्गमनङ्गपरवशो निजाङ्गेन सुदृढमालि-
गति चेत्यर्थः । तनु तनुनेत्यादिभिरुभयानुरागसाचिव्येन परां काष्ठा-
मधितिष्ठन् रखो ध्वन्यते । अत्र श्लोके 'तनु तनुना' इति साधारण्येन,
'गादतप्तेन' 'समधिकतरोच्छ्यासिना' इति दुःखाधिक्यस्य तृतीयान्त-
स्वाङ्गगतत्वेन ' आसद्भुतम्, 'अविरतोत्कण्ठम्' इति द्वितीयान्त-
प्रियतमाङ्गगतत्वेन अनियमप्रतिपादनम् उभयत्रापि विरहविधुरता-
साम्यसंसूचनायेति मन्तव्यम् । अतश्च निरतिशयान्योन्यानुरागव्य-
ञ्जनपरत्वात्तथोक्तेः प्रक्रमानिर्वाहशङ्काया नावसरः । यथासंख्यमलं-
कारः ॥ ३५ ॥
 
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-
त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट
 
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥३६॥
अथैवं दृढतरदत्तकण्ठमद्दस्त्वामैवं संदिशतीत्याइ– शब्दाख्ये
यमित्यादि । शब्देन प्रकाशमेव कथयितुं योग्यम् । शब्द एवाभि-
धेयं यस्य, तत् निरर्थकमिति केचित् । यदपि यद्यपि। किलेति वार्ता-