This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
मीति तद्भावभावनोपपादितायास्तवेत्यर्थः । विशति तृष्णातिशयेनैक्य-

मभिलन्ननुप्रविशति। विधिना देबेदैवेनेति, तस्यालद्ध्ड़्घ्यत्वं प्रकाशयति ।
बै

वै
रिणा अकारणद्वेषदारुणेनेति, निष्कारुण्ये तस्मिन्नसूया व्यज्यते ।

रुद्धमार्गः निवारितत्वदुपगमनमार्गः ; शापार्गलयेति शेषः । अतो

गत्यन्तराभावात्संकल्पैरेव त्वदङ्गमनङ्गपरवशो निजाङ्गेन सुदृढमालि-

ड़्
गति चेत्यर्थः । तनु तनुनेत्यादिभिरुभयानुरागसाचिव्येन परां काष्ठा-

मधितिष्ठन् रखोसो ध्वन्यते । अत्र श्लोके 'तनु तनुना' इति साधारण्येन,

'गातप्तेन' 'समधिकतरोच्छ्यावासिना' इति दुःखाधिक्यस्य तृतीयान्त-

स्वाङ्गगतत्वेन ' ' 'स्रद्भुरुतम्,' 'अविरतोत्कण्ठम्' इति द्वितीयान्त-

प्रियतमाङ्गगतत्वेन अनियमप्रतिपादनम् उभयत्रापि विरहविधुरता-

साम्यसंसूचनायेति मन्तव्यम् । अतश्च निरतिशयान्योन्यानुरागव्य-

ञ्जनपरत्वात्तथोक्तेः प्रक्रमानिर्वाहशङ्काया नावसरः । यथासंख्यमलं-

कारः ॥ ३५ ॥
 

 
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-

त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।

सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट
 
-
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥३६॥

 
अथैवं दृढतरदत्तकण्ठमद्दस्त्वामैग्रहस्त्वामेवं संदिशतीत्या– शब्दाख्ये

यमित्यादि । शब्देन प्रकाशमेव कथयितुं योग्यम् । शब्द एवाभि-

धेयं यस्य, तत् निरर्थकमिति केचित् । यदपि यद्यपि। किलेति वार्ता-